Ram Ashtakam

Ashtakam

1

श्रीरामं करुणानिधिं च परमं पूज्यं महद्रूपकं मायातीतमजं च नित्यविमलं ह्य्कं जगद्व्यापकम्। वाशिष्ठयादिऋषीश्वरैः प्रतिदिनं ब्रह्मैव जानन्ति यं सत्यं श्यामलसुन्दरञ्च सुखदं श्रीरामचन्द्रं भजे॥

2

रामं श्यामलकोमलाङ्गसुतनुं सीतापतिं सुन्दरं रामं भक्तप्रियश्च धार्मिकरघ्र्वंशस्य सद्भूषणम्। रामं नीतिप्रियं च ब्राह्मणप्रियं सत्यप्रियं धार्मिकं सत्यं श्यामल सुन्दरञ्च सुखदं श्रीरामचन्द्रं भजे॥

3

रामं कण्टकरावणान्तकरणं सीतासुरक्षाकरं रामं भक्तविभीषणाय सुखदं लङ्कापुरी दायकम्। रामं लक्ष्मणपूर्वजञ्च भरतशत्रुघ्नपूज्यं परं सत्यं श्यामल सुन्दरञ्च सुखदं श्रीरामचन्द्रं भजे॥

4

कौशल्या दशचक्रि राजतनयं रामाद्यनारायणं नानावस्त्रविभूषणादिसहितं हस्ते धनुर्वाणकम्। कर्णे कुण्डलहेमरत्नजटितं रूपं सदा रम्यकं सत्यं श्यामल सुन्दरञ्च सुखदं श्रीरामचन्द्रं भजे॥

5

सर्वस्मिन्जगतीतले च भुवने त्वं प्राणिनां प्राणदः सर्वात्मासि च ज्ञानियोगिमुनिनां त्वं ज्ञानदो मोक्षदः। भक्तानां च सुरक्षकं प्रतिदिनं चैतन्यरूपं परं सत्यं श्यामल सुन्दरञ्च सुखदं श्रीरामचन्द्रं भजे॥

6

त्वं सूर्योऽसि यमेन्द्रधर्ममरुतां रूपोऽसि ब्रह्मात्मको रुद्रव्यासशुकात्मकश्च वरुणश्चन्द्रोऽसि कृष्णात्मकः। त्रय्यात्मानमखण्डरूपमनघं साङ्ख्यादिवेद्यं प्रभुं सत्यं श्यामल सुन्दरञ्च सुखदं श्रीरामचन्द्रं भजे॥

7

कैवल्यात्मक शान्त ! हे रघुपते सीतापते हे प्रभो ब्रह्मानन्दस्वरूप हे गुणनिघे लक्ष्मीपते हे विभो। हे विश्वम्भर सत्स्वरूप भगवन् हे शुद्धबोधात्मक सत्यं श्यामलसुन्दरञ्च सुखदं श्रीरामचन्द्रं भजे॥

8

हे त्रैलोक्यपते चराचरगुरो हे विश्वसञ्चालक हे आदर्शचरित्र हे नरहरे ब्रह्माण्डसंरक्षक। सौमित्री हनुमत्प्रियं प्रतिदिनं सुग्रीवमित्रं प्रभुं सत्यं श्यामलसुन्दरञ्च सुखदं श्रीरामचन्द्रं भजे॥

9

समर्पयामि हे राम रामाष्टकस्तवं प्रभो। नमामि भगवन् राम प्रसन्नो भव सर्वदा॥