dAnalIlAShTakam

Ashtakam

1

सदा चन्द्रावल्या कुसुमशयनीयादि रचितुं सहासं प्रोक्ताः स्वप्रणयिग्रहचर्यः प्रमुदिताः। निकुञ्जेष्वन्योन्यं कृतविवधतल्पेषु सरसां कथास्वस्वामिन्या सपदि कथयन्ति प्रियतमाम्॥

2

अशेषसुकृतोदयैरखिलमङ्गलैर्वेधसा मनोरथशतैः सदा मनसि भावितैर्निर्मिते। अहन्यतिमनोहरे निजगृहाद्विहारेच्छया सखीशतवृताऽचलद्व्रजवनेषु चन्द्रावली॥

3

समुद्ग्रथितमालतीकुरबकादिपुष्पावली- गलत्परिमलोन्मदभ्रमरयूथसन्नादितम्। उदारमतिचित्रितं मृगमदादिभिर्बिभ्रती मनोभवमदापहं किमपि केशपाशं सखी॥

4

श्यामेन्दोरनुरूपां विधिरचितां तारकामहं मन्ये। यत्तत्करनखकिरणो न जातु सख्यस्त्यजन्तीमाम्॥

5

कुङ्कुममृगमदमलयजचित्रितकुसुमं तदीयधम्मिल्लम्। नो किन्तु कुसुमधनुषस्तूणीरं सर्जितं विधिना॥

6

न धम्मिल्लो मौग्ध्यामृतजलमुचामेष निचयो न पुष्पाणीमानि त्रिदशपतिमौर्वीपरिणतिः। न मुक्तागुच्छानि प्रकटसुखगात्रः करतरो न काश्मीरोद्भूता सुभगतररेखा तडिदियम्॥

7

निसर्गसुन्दरोऽप्यालिसूक्ष्मचित्राम्बरान्तरे। गूढो भाव इवैतस्याः सोऽदृश्यत विलक्षणः॥

8

मत्समर्पितसिन्दूररेखोपरि परिस्थिता। मुक्ताफलावलीमाला सीमान्ते बिभ्रती बभौ॥