Yamashtakam from Narasimhapurana

Ashtakam

1

श्रीव्यास उवाच -- स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले। परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम्॥

2

अहममरगणार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः। हरिगुरुविमुखान् प्रशास्मि मर्त्यान् हरिचरणप्रणतान्नमस्करोमि॥

3

सुगतिमभिलषामि वासुदेवादहमपि भागवते स्थितान्तरात्मा। मधुवधवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि कृष्णः॥

4

भगवति विमुखस्य नास्ति सिद्धिर्विषममृतं भवतीति नेदमस्ति। वर्षशतमपीह पच्यमानं व्रजति न काञ्चनतामयः कदाचित्॥

5

नहि शशिकलुषच्छविः कदाचिद्विरमति नो रवितामुपैति चन्द्रः। भगवति च हरावनन्यचेता भृशमलिनोऽपि विराजते मनुष्यः॥

6

महदपि सुविचार्य लोकतत्त्वं भगवदुपास्तिमृते न सिद्धिरस्ति। सुरगुरुसुदृढप्रसाददौ तौ हरिचरणौ स्मरतापवर्गहेतोः॥

7

शुभमिदमुपलभ्य मानुषत्वं सुकृतशतेन वृथेन्द्रियार्थहेतोः। रमयति कुरुते न मोक्षमार्गं दहयति चन्दनमाशु भस्महेतोः॥

8

मुकुलितकरकुड्मलैः सुरेन्द्रैः सततनमस्कृतपादपङ्कजो यः। अविहतगतये सनातनाय जगति जनिं हरते नमोऽग्रजाय॥

9

यमाष्टकमिदं पुण्यं पठते यः श‍ृणोति वा। मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति॥

10

इतीदमुक्तं यमवाक्यमुत्तमं मयाधुना ते हरिभक्तिवर्द्धनम्। पुनः प्रवक्ष्यामि पुरातनीं कथां भृगोस्तु पौत्रेण च या पुरा कृता॥

11

इति श्रीनरसिंहपुराणे यमाष्टकनाम नवमोऽध्यायः॥