Yamunashtakam

Ashtakam

1

मातर्देवि कलिन्दभूधरसुते नीलाम्बुजश्यामल स्निग्धोद्यद्विमलोर्मिताण्डवधरे तुभ्यं नमस्कुर्महे। त्वं तुर्याप्यसि यत्प्रिया मुररिपोस्तद्बाल्यतारुण्ययो- र्लीलानामवधायिकान्यमहिषीवृन्देषु वन्द्याधिकम्॥

2

लोकान्यान्कलिकालकीलितमहादुष्कर्मकूटाङ्कितान्- नेनिक्ते दिवमुत्पतिष्यति हि सा गीर्वाणकूलङ्कषा। तन्मातस्त्वयि संसृतिप्रसृमरक्लेशाभिभूतं मनः स्वर्निःश्रेणिमुपेतुमर्कतनये श्रद्धां निबध्नाति नः॥

3

सोन्नादं निपतन्कलिन्दशिखरप्रोत्तुङ्गश‍ृङ्गान्तरा- द्गच्छन्प्राच्यमपनिधिं जननि सद्वारां प्रवाहस्तव। मध्येमार्गमवाप्तभूरिविषयांस्तत्कालमुन्मार्जयन् दिश्यान्नः श्रियमुद्धुरां मरकतश्यामाभिरामद्युतिः॥

4

शय्योत्थायमजस्रमात्मसदनात्त्वां वीक्ष्य लक्ष्यां क्षणान्- मातः प्रातरपोहयामि विततं दुष्पातकव्रातकम्। सन्धीभूय समूलकाषमखिलं सङ्कष्य सत्कर्मणां काण्डं द्राग् अपवर्गमार्गगमने येनार्गलीभूयते॥

5

नावासं द्युसदां न पन्नगपुरं नान्याश्च भोगस्थलीः श्लाघेऽहं परमत्र किं तु विपुलाः श्रीभारतीया भुवः। स्वेच्छाधावदुदग्रदुष्कलिकरिक्रीडाकृपाणायिता यास्वेतास्तव वारिणां रविसुते चञ्च्वन्ति वीचिच्छटाः॥

6

त्वत्कूले निवसन्वसन्न वृजिनव्यूहोऽभिपुण्वन्मुहुः पार्यपायमपायवारि मधुरं वारि ग्रहेशात्मजे। दूरीकृत्य ऋणचयं सफलयन्जन्मात्मनो निर्भरा नन्दास्वादनतत्परो गमयिता कालं कदायं जनः॥

7

नो तत्त्वावगमस्पृहा न विपुलायासः सतां सङ्गतौ नो तत्तन्निगमागमोक्तविविधानुष्ठाननिष्ठापि च। येषां तेऽपि जनाः पतङ्गतनये भित्त्वा पितुर्मण्डलं सोदर्यं च वधीर्य ते सुकृतिनो ब्रह्मात्मतां बिभ्रति॥

8

वक्तुं ते महिमानमस्मि न विभुर्लोके विकुण्ठोऽप्यलं कंसारातिकुटुम्बिनि प्रकटयत्प्रीतिं परं कुण्ठिताम्। यद्वेदैरपि मृग्यमाणमनिशं तद्ब्रह्म मातर्यत- स्त्वत्कूलस्थनिकुञ्जमञ्जुवलयक्रोडेषु विक्रीडति॥

9

इति श्रीयमुनाष्टकं सम्पूर्णम् ।॥