Shri Pranavashtaka Stotram
Ashtakam
1
अचतुराननमुस्वभुवं हरिं महरमेव सुनादमहेश्वरम्। परममुज्वलबिन्दुसदाशिवम्॥
2
प्रणवकारमहं प्रणमामितम्॥
3
अरचनाख्यकलामुसुपाकलां मकृतिनाशकलां लयनादगाम्। परमबिन्दुरनुग्रहगां कलां प्रणवकारमहं प्रणमामितम्॥
4
अगणनाथमुकारजनार्दनं मरविमेव सुनादपराम्विकाम्। परमबिन्दुशिवं परमेश्वरं प्रणवकारमहं प्रणमामि तम्॥
5
अपृथिवीमुजलं मकृशानुजं परमनादमयं परबिन्दुखम्। भुवनबीजमहापरमेश्वरं प्रणवकारमहं प्रणमामि तम्॥
6
अनिनदं क्षितिचक्रसमुद्भवं हृदयचक्रजमुध्वनिमुज्वलम्। मखमेवसहस्रदले गतं प्रणवकारमहं प्रणमामि तम्॥
7
पुनरमातृमयं तदुमानगं शुभममेयमयं त्रिगुणात्मकम्। परमनादपरां परबैन्दवं प्रणवकारमहं प्रणमामि तम्॥
8
त्रिपुरधाममयं परमात्मकं परमहंसमयं लयमोक्षदम्। सुनिगमागमतत्वयुतं प्रभुं प्रणवकारमहं प्रणमामि तम्॥
9
ॐकारं परमात्मकं त्रिगुणकं चाम्बाम्बिकाम्बालिका- रूपं नादमनादिशक्तिविभवाविद्यासुविद्यायुतम्। बिन्दुं ब्रह्ममयं तदन्तरगतां श्रीसुन्दरीं चिन्मयीं साक्षाच्छ्रीप्रणवं परं च धनशंशेरः सदा नौम्यहम्॥
10
इति श्रीधनशंशेर जङ्गवर्म्मणाविरचितं वीरेन्द्रकेसरिन् शर्म्मणा संशोधितं श्रीप्रणवाष्टकम्तोत्रम्॥