Namaskarashtakam
Ashtakam
1
रमाकान्तरामं भवारामरामं विरामेऽभिरामं प्रशान्तप्रकामम्। परब्रह्मरूपं चिदानन्दरूपं स्फुरच्चारुचापं नतोऽहं नतोऽहम्॥
2
नभोनीलरूपं धृतानन्तरूपं कृतारिप्रकोपं हृतारिप्रपापम्। जटाजूटरूपं सतीभ्रान्तिकारं त्रिलोकोपकारं नतोऽहं नतोऽहम्॥
3
अहल्याघहारं हि ताराजतारं भवाम्भोधिपारं गृहीतावतारम्। शृतिव्रातसारं धराधामधारं दशास्यापहारं नतोऽहं नतोऽहम्॥
4
कृताम्भोधिसेतुं सुरत्राणहेतुं मदान्धाँश्चजेतुं रघोर्वंशकेतुम्। रिपौ दण्ड पाणिं रणे शार्ङ्गपाणिं मनोहारिवाणिं मतोऽहं नतोऽहम्॥
5
मुनीन्द्रैः सुरेन्द्रैर्द्विजेन्द्रैर्नरेन्द्रैः सुगीतं ससीतं प्रदीप्तं प्रपीतम्। दहन्तं प्रदाहं सुबाहुं नृसिंहं तडित्ताडकाहं नतोऽहम नतोऽहम्॥
6
जगज्जानृपालं भवालम्बनालं धृताम्भोजमालं कृपालुं नृपालम्। चलच्चारुचालं करादत्ततालं सुसाकेतबालं नतोऽहं नतोऽहम्॥
7
कपीन्द्रादिन्वद्यं नृपेन्द्राद्यनिन्द्यं खराखर्वगर्वं हरन्तं वरं तम्। महाकालकालं महावालिनेऽलं बलेरङ्कवालं नतोऽहं नतोऽहम्॥
8
ग्रसद्व्यालकालं महाश्चर्यशीलं कृतारण्यवासं घृतागण्यभासम्। सदाश्रीनिवासं ससन्मन्दहासं सुसीताविलासं नतोऽहं नतोऽहम्॥
9
आचार्यसार्वभौमेण श्रीमद्देवमुरारिणा। प्रणीतमष्टकं चैतत् पठतां मुक्तिदायकम्॥