KulirAshtakam

Ashtakam

1

तवास्याराद्धारः कति मुनिवराः कत्यपि सुराः तपस्यासन्नाहैः सुचिरममनोवाक्पथचरैः। अमीषां केषामप्यसुलभममुष्मै पदमदाः कुळीरायोदारं शिव तव दया सा बलवती॥

2

अकर्तुं कर्तुं वा भुवनमखिलं ये किल भव- न्त्यलं ते पादान्ते पुरहर वलन्ते तव सुराः। कुटीरं कोटीरे त्वमहह कुळीराय कृतवान् भवान् विश्वस्येष्टे तव पुनरधीष्टे हि करुणा॥

3

तवारूढो मौळिं तदनधिगमव्रीळनमितां चतुर्वक्त्रीं यस्त्वच्चरणसविधे पश्यति विधेः। कुळीरस्यास्यायं कुलिशभृदलक्ष्यश्शिव भव- द्दया सेयं त्वामप्यधरितवती किं न कुरुताम्॥

4

श्रुतिस्मृत्यभ्यासो नयनिचयभूयःपरिचयः तथा तत्तत्कर्मव्यसनमपि शुष्कश्रमकृते। त्वयि स्वान्तं लग्नं न यदि यदि लग्नं तदियता जिता कैवल्यश्रीः पुरहर कुळीरोऽत्र गमकः॥

5

तपोभिः प्राग्जन्मप्रकरपरिनम्रैः पुररिपो तनौ यस्यां कस्यामपि स हि भवार्तिप्रतिभटः। त्वयि स्याद्धीबन्धस्तनुरचरमा सैव चरमा कुळीरो ब्रूते तन्महिमपथविद्वद्गुरुरयम्॥

6

धियो धानं नाम त्वयि शिव चिदानन्द परमो- न्मिषत्साम्राज्यश्रीकुरळरभसाकर्षकुतुकम्। कुळीरेण ज्ञातं कथमनधिगम्यं दिविषदां दया ते स्वच्छन्दा प्रथयति न कस्मै किमथवा॥

7

तदुच्चत्वं नैच्यं त्वितरदिति लोकाः शिव मुधा व्यवस्थामस्थाने विदधति च नन्दन्ति च मिथः। कुळीरस्त्वन्मौळिस्थितिमसुलभामेत्य स भवत्- कृपामुच्चत्वं तद्विरहमपि नैच्यं प्रथयति॥

8

कुळीरेशाख्यातिर्गिरिश कृपयोच्चैरुपहृता तवेयं भक्तायोन्नतिवितरणश्रीगमनिका। भवद्भक्त्युन्मीलत्फलगरिमटीकास्थितिजुषा कुळीरस्य ख्यात्या जगति सहचर्या विहरते॥

9

कुळीरेश स्तोत्रं त्वदनुपधिकानुग्रहभवं पठेयुर्ये नित्यं श‍ृणुयुरपि वा ये पुनरिदम्। प्रसादात्ते तेऽमी विधुतदुरितास्त्वय्यभिरताः भवेयुर्निर्यत्नाधिगतसकलाभीप्सितफलाः॥

10

कर्कटकचन्द्रयोगः कर्कटकेशान मूर्ध्नि ते दृष्टः। कारय वृष्टिममोघां वारय वर्षोपरोधदुर्योगम्॥

11

इति श्री श्रीधरवेङ्कटेशार्य विरचितं कुळीराष्टकं समाप्तम्॥