ShrI Anantakrishnavaradaraja Ashtakam

Ashtakam

1

श्री-भूमि-नीला-परिसेव्यमान- मनन्तकृष्णं वरदाख्य-विष्णुम्। अघौघविध्वंसकरं जनानां अघंहरेशं प्रभजे सदाऽहम्॥

2

तिष्ठन् स्वधिष्ण्ये परितो विपश्यन् आनन्दयन् स्वानभिराममूर्त्या। योऽघंहरग्रामजनान् पुनीते ह्यनन्तकृष्णं वरदेशमीडे॥

3

भक्तान् जनान् पालनदक्षमेकं विभुं श्रियाऽऽश्लिष्यतनुं महान्तम्। सुपर्णपक्षोपरिरोचमान- मनन्तकृष्णं वरदेशमीडे॥

4

सूर्यस्य कान्त्या सदृशैर्विराजद्- रत्नैः समालङ्कृतवेषभूषम्। तमो विनाशाय मुहुर्मुहुस्त्वा- मनन्तकृष्णं वरदेशमीडे॥

5

अनन्तसंसार-समुद्रतार- नौकायितं श्रीपतिमाननाब्जम्। अनन्तभक्तैः परिदृश्यमान- मनन्तकृष्णं वरदेशमीडे॥

6

नमन्ति देवाः सततं यमेव किरीटिनं गदिनं चक्रिणं तम्। वैखानसैः सूरिभिरर्चयन्त- मनन्तकृष्णं वरदेशमीडे॥

7

तनोति देवः कृपया वरान् यो चिरायुषं भूतिमनन्यसिद्धिम्। तं देवदेवं वरदानदक्ष- मनन्तकृष्णं वरदेशमीडे॥

8

कृष्णं नमस्कृत्य महामुनीन्द्राः स्वानन्दतुष्टा विगतान्यवाचः। तं स्वानुभूत्यै भव-पाद्म-वन्द्य- मनन्तकृष्णं वरदेशमीडे॥

9

अनन्तकृष्णस्य कृपावलोका- दघंहर-ग्रामज-दीक्षितेन। सुसूक्तिमालां रचितां मनोज्ञां गृह्णातु देवो वरदेश- विष्णुः॥

10

इति अघंहर-ग्राम-वासिना अनन्तकृष्णवरदराजस्य पार्श्ववर्तिना ब्रह्मश्री रङ्गस्वामि-दीक्षितेन विरचितं अनन्त-कृष्ण-वरदराजाष्टकं सम्पूर्णम्॥