Shri Gurudevashtakam
Ashtakam
1
संसारदावानललीढलोक त्राणाय कारुण्यघनाघनत्वम्। प्राप्तस्य कल्याणगुणार्णवस्य वन्दे गुरोः श्रीचरणारविन्दम्॥
2
महाप्रभोः कीर्तननृत्यगीत वादित्रमद्यन्मनसो रसेन। रोमाञ्चकम्पाश्रुतरङ्गभाजो वन्दे गुरोः श्रीचरणारविन्दम्॥
3
श्रीविग्रहाराधननित्यनाना शृङ्गारतन्मन्दिरमार्जनादौ। युक्तस्य भक्तांश्च नियुञ्जतोऽपि वन्दे गुरोः श्रीचरणारविन्दम्॥
4
चतुर्विधश्रीभगवत्प्रसाद स्वाद्वन्नतृप्तान् हरिभक्तसङ्घान्। कृत्वैव तृप्तिं भजतः सदैव वन्दे गुरोः श्रीचरणारविन्दम्॥
5
श्रीराधिकामाधवयोरपार माधुर्यलीलागुणरूपनाम्नाम्। प्रतिक्षणास्वादनलोलुपस्य वन्दे गुरोः श्रीचरणारविन्दम्॥
6
निकुञ्जयूनो रतिकेलिसिद्ध्यै या यालिभिर्युक्तिरपेक्षणीया। तत्रातिदाक्ष्यादतिवल्लभस्य वन्दे गुरोः श्रीचरणारविन्दम्॥
7
साक्षाद्धरित्वेन समस्तशास्त्रै- रुक्तस्तथा भाव्यत एव सद्भिः। किन्तो प्रभोर्यः प्रिय एव तस्य वन्दे गुरोः श्रीचरणारविन्दम्॥
8
यस्य प्रसादाद्भगवत्प्रसादो यस्याप्रसादान् न गतिः कुतोऽपि। ध्यायन् स्तुवंस्तस्य यशस्त्रिसन्ध्यं वन्दे गुरोः श्रीचरणारविन्दम्॥
9
श्रीमद्गुरोरष्टकमेतदुच्चै- र्ब्राह्मे मुहूर्ते पठति प्रयत्नात्। यस्तेन वृन्दावननाथ साक्षात् सेवैव लभ्या जुषणोऽन्त एव॥
10
इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीगुरुदेवाष्टकं सम्पूर्णम् ।॥