Tulasipriya Ashtakam
Ashtakam
1
मणिविग्रह हे बलभद्रसुर मदमत्तविभो स्फुरणं मधुरम्। वदनं मधुरं हसनं मधुरं तुलसीप्रिय ते भुवनं मधुरम्॥
2
अभिराममहेश्वर हे मधुर करुणावरुणालय हे विमल। मधुरो महिमा मधुरा प्रतिमा तुलसीप्रिय ते भुवनं मधुरम्॥
3
गौरो मधुरः सौरो मधुरः पौरो मधुरः शस्त्रं मधुरम्। तीरं मधुरं चेलं मधुरं तुलसीप्रिय ते कथनं मधुरम्॥
4
ग्रीवा मधुरा भावो मधुरः केशो मधुरो रासो मधुरः। हास्यं मधुरं लास्यं मधुरं तुलसीप्रिय ते भ्रमणं मधुरम्॥
5
नलिनं मधुरं जघनं मधुरं श्रोत्रे मधुरे नेत्रे मधुरे। पादौ मधुरौ नादो मधुर- तुलसीप्रिय ते चलनं मधुरम्॥
6
भोगो मधुरो योगो मधुरः दासो मधुरो वासो मधुरः। दृश्यं मधुरं स्पर्शं मधुरं तुलसीप्रिय ते सवनं मधुरम्॥
7
हाला मधुरा वेला मधुरा नीलं मधुरं मूलं मधुरम्। मौलिर्मधुरो मालं मधुरं तुलसीप्रिय ते शरणं मधुरम्॥
8
गेयं मधुरं पेयं मधुरं चव्यं मधुरं चोष्यं मधुरम्। लेह्यं मधुरं काव्यं मधुरं तुलसीप्रिय ते वचनं मधुरम्॥