Shri Vidyatirthashtakam

Ashtakam

1

वर्णचतुष्टयमेतद्विद्यातीर्थेति यस्य जिह्वाग्रे। विलसति सदा स योगी भोगी च स्यान्न तत्र सन्देहः॥

2

लम्बिकायोगनिरतमम्बिकापतिरूपिणम्। विद्याप्रदं नतौघाय विद्यातीर्थमहेश्वरम्॥

3

पापगधकारसूर्यं तापाम्भोधिप्रवृद्धबडवाग्निम्। नतहृन्मानसहंसं विद्यातीर्थं नमामि योगीशम्॥

4

पद्यावलिर्मुखाब्जादयत्नतो निःसरेच्छीघ्रम्। हृद्या यत्कृपया तं विद्यातीर्थं नमामि योगीशम्॥

5

भक्त्या यत्पदपद्मं भजतां योगः षडङ्गयुतः। सुलभस्तं करुणाब्धिं विद्यातीर्थं नमामि योगीशम्॥

6

हृद्या विद्या वृणुते यत्पदनम्रं नरं शीघ्रम्। तं कारुण्यपयोधिं विद्यातीर्थं नमामि योगीशम्॥

7

विद्यां दत्त्वाविद्यां क्षिप्रं वारयति यः प्रणम्राणाम्। दयया निसर्गया तं विद्यातीर्थं नमामि योगीशम्॥

8

विद्यारण्यप्रमुखैर्विद्यापारङ्गतैः सेव्यम्। अद्यापि योगनिरतं विद्यातीर्थं नमामि योगीशम्॥

9

विद्यातीर्थाष्टकमिदं पठन्भक्तिपुरःसरम्। विद्यामनन्यसामान्यां प्राप्य मोदमवाप्नुयात्॥