Shri Kiladevacharya Ashtakam
Ashtakam
1
श्रीपयोहारिणः शिष्यं रामानन्दानुयायिनम्। वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
2
रामानन्दकृतानन्दभाष्याध्यापनतत्परम्। वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
3
कर्मज्ञानाङ्गिभक्तेर्हि प्रदानान्मुक्तिदायिनम्। वन्देऽहं कीलदेवार्यं द्वाराचार्य जगद्गुरुम्॥
4
तारणाय भवाम्भोधे रामतारकमन्त्रदम्। वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
5
वादिवारणशार्दूलं सिद्धेन्द्रं सिद्धिबुद्धिदम्। वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
6
सीतारामपदासक्तं सीतारामप्रपत्तिदम्। वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
7
तारकादित्रयाणां च व्याख्यातारं बुधोत्तमम्। वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
8
मालामुद्रोर्ध्वपुण्ड्रादेर्धारिणं तत्त्ववेदिनम्। वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम्॥
9
भवोघ्निहननेदक्षं कीलदेवाययोगिने पयोहारि सुशिष्याय द्वाराचार्यं नमाम्यहम्॥