Keshavashtakam
Ashtakam
1
नवप्रियकमञ्जरीरचितकर्णपूरश्रियं विनिद्रतरमालतीकलितशेखरेणोज्ज्वलम्। दरोच्छ्वसितयूथिकाग्रथितवल्गुवैकक्षकृत् व्रजे विजयिनं भजे विपिनदेशतः केशवम्॥
2
पिशङ्गि मणिकस्तनि प्रणतशृङ्गि पिङ्गेक्षणे मृदङ्गमुखि धूमले शवलि हंसि वंशीप्रिये। इति स्वसुरभिकुलं तरलमाह्वयन्तं मुदा व्रजे विजयिनं भजे विपिनदेशतः केशवम्॥
3
घनप्रणयमेदुरान् मधुरनर्मगोष्ठीकला विलासनिलयान् मिलद्विविधवेशविद्योतिनः। सखीन् अखिलसारया पथिषु हासयन्तं गिरा व्रजे विजयिनं भजे विपिनदेशतः केशवम्॥
4
श्रमाम्बुकणिकावलीदरविलीढगण्डान्तरं समूढागिरिधातुभिर्लिखितचारुपत्राङ्कुरम्। उदञ्चदलिमण्डलीद्युतिविडम्बिवक्रालकं व्रजे विजयिनं भजे विपिनदेशतः केशवम्॥
5
निबद्धनवतर्णकावलिविलोकनोत्कण्ठया नटत्खुरपुटाञ्चलैरलघुभिर्भुवं भिन्दतीम्। कलेन धवलाघटां लघु निवर्तयन्तं पुरो व्रजे विजयिनं भजे विपिनदेशतः केशवम्॥
6
पद्माङ्कततिभिर्वरां विरचयन्तमध्वश्रियं चलत्तरलनैचिकीनिचयधूलिधूम्रस्रजम्। मरुल्लहरिचञ्चलीकृतदुकूलचूडाञ्चलं व्रजे विजयिनं भजे विपिनदेशतः केशवम्॥
7
विलासमुरलीकलध्वनिभिरुल्लसन्मानसाः क्षणादखिलवल्लवीः पुलकयन्तमन्तर्गृहे। मुहुर्विदधतं हृदि प्रमुदितां च गोष्ठेश्वरीं व्रजे विजयिनं भजे विपिनदेशतः केशवम्॥
8
उपेत्य पथि सुन्दरीततिभिराभिरभ्यर्चितं स्मिताङ्कुरकरम्बितैर्नटदपाङ्गभङ्गीशतैः। स्तनस्तवकसञ्चरन्नयनचञ्चरीकाञ्चलं व्रजे विजयिनं भजे विपिनदेशतः केशवम्॥
9
इदं निखिलवल्लवीकुलमहोत्सवोल्लासनं क्रमेण किल यः पुमान् पठति सुष्ठु पद्याष्टकम्। तमुज्ज्वलधियं सदा निजपदारविन्दद्वये रतिं दददचञ्चलां सुखयताद् विशाखासखः॥
10
इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकेशवाष्टकं सम्पूर्णम् ।॥