Shri Brahmanyatirtha Mangala Ashtakam
Ashtakam
1
श्रीमानत्र दिवाकरः करुणया ब्रह्मौघवाञ्छाकृते श्रीमत्पूगवनान्ववायतिलकाद्रामार्यविप्रोत्तमात्। लब्ध्वाजन्म नृसिंहसेवनरतःक्षोणीसुचिन्तामणिः श्रीब्रह्मण्य इतीरितः स भुवि नः कुर्यान्मुनिर्मङ्गलम्॥
2
पूर्वं शुभ्रतनुःकलानिधिरसौ लीढस्तमोजिह्वया मालिन्यस्य वशो यदीययशसां त्रैलोक्यगानां करैः। धावल्यं पुनराप्तवानपि ह्रसत्यन्यप्रभालाभतः श्रीब्रह्मण्ययतीश्वरः स भुवि नः कुर्यात्परं मङ्गलम्॥
3
यद्वादाभिधसिंहनादमतुलं वादीन्द्रदन्तावलाः शृण्वन्तःकिल दूरतोऽपि चकिता दिक्कन्दरं प्राद्रवन्। सोयं श्रीयतिराजशूरमृगराट् वृन्दावने संवसन्ग् श्रीब्रह्मण्यवराभिधः स भुवि नः कुर्यात्परं मङ्गलम्॥
4
यस्यश्रीकरपङ्कजादृतमहामन्त्राक्षतैःसाधिताः सर्वेभीष्टचयाःसुरद्रुमवरैर्दातुं न शक्या हि ते। यद्वृन्दावनमृत्तिकाधृतिरहो क्रूरग्रहोद्भञ्जिका श्रीब्रह्मण्ययतीश्वरः स भुवि नः कुर्यात्परं मङ्गलम्॥
5
श्रीभास्वानपरोयमान्तरतमस्तोमस्य सम्भेदको गोभिश्चित्रसुवर्णरम्यतनुभिःसाध्वब्जसंहर्षकः। किञ्चातिग्मरुचिर्मनुष्यसुदृशां हर्षेण दृश्याकृतिः श्रीब्रह्मण्यवराभिदः स भुवि नः कुर्यात्परं मङ्गलम्॥
6
संसाराम्बुनिधौ तरङ्गनिचयैःसन्ताडितानां सताम् नित्यं पारमितःपरं मृगयतामालम्बनापेक्षिणाम्। ज्ञानाभिख्यदृढोडुपेन विलसन् सन्तारको नाविकः श्रीब्रह्मण्यवराभिधः स भुवि नः कुर्यान्मुनिर्मङ्गलम्॥
7
यद्वृन्दावनमिन्दिरेशकरुणावृन्दस्य सन्दायकम् मन्दारद्रुमवज्जनेष्टनिचयं सम्पादयत्पावनम्। सान्द्रानन्दकदम्बमूर्तिरुचिरं सद्वृन्दसंसेवितम् श्रीब्रह्मण्यवराभिधः स भुवि नः कुर्यान्मुनिर्मङ्गलम्॥
8
सेव्या कण्चनदीपवित्रसलिलारामाप्रमेयो हरिः क्षेत्रं ज्ञानसुमण्टपाख्यमनिशं ह्यब्बूरुनाम्नास्तियत्। तद्रम्यस्थलभूषणं वरगुरुर्वृन्दावनं तद्गतः श्रीब्रह्मण्ययतीश्वरश्च भुवि नः कुर्यात्परं मङ्गलम्॥
9
इत्येतद्वरमङ्गलाष्टकमिदं श्रीनिवासोदितं सर्वाभीष्टकरं प्रभातसमये भक्त्या पठन् मानवः। माङ्गल्यादिशुभक्रियासु च वदन् ब्रह्मण्यकारुण्यतः सुज्जानं विविधार्थसिद्धिमपि स प्राप्नोत्यसौ मङ्गलम्॥