vArAhInigrahAShTakam
Ashtakam
1
श्रीगणेशाय नमः। देवि क्रोडमुखि त्वदंघ्रिकमल-द्वन्द्वानुरक्तात्मने मह्यं द्रुह्यति यो महेशि मनसा कायेन वाचा नरः। तस्याशु त्वदयोग्रनिष्ठुरहला-घात-प्रभूत-व्यथा- पर्यस्यन्मनसो भवन्तु वपुषः प्राणाः प्रयाणोन्मुखाः॥
2
देवि त्वत्पदपद्मभक्तिविभव-प्रक्षीणदुष्कर्मणि प्रादुर्भूतनृशंसभावमलिनां वृत्तिं विधत्ते मयि। यो देही भुवने तदीयहृदयान्निर्गत्वरैर्लोहितैः सद्यः पूरयसे कराब्ज-चषकं वांछाफलैर्मामपि॥
3
चण्डोत्तुण्ड-विदीर्णदुष्टहृदय-प्रोद्भिन्नरक्तच्छटा- (विदीर्णदंष्ट्र) हालापान-मदाट्टहास-निनदाटोप-प्रतापोत्कटम्। मातर्मत्परिपन्थिनामपहृतैः प्राणैस्त्वदंघ्रिद्वयं ध्यानोद्दामरवैर्भवोदयवशात्सन्तर्पयामि क्षणात्॥
4
श्यामां तामरसाननांघ्रिनयनां सोमार्धचूडां जगत्त्राण-व्यग्र-हलायुधाग्रमुसलां सन्त्रासमुद्रावतीम्। ये त्वां रक्तकपालिनीं हरवरारोहे वराहाननां भावैः सन्दधते कथं क्षणमपि प्राणन्ति तेषां द्विषः॥
5
विश्वाधीश्वरवल्लभे विजयसे या त्वं नियन्त्र्यात्मिका भूतान्ता पुरुषायुषावधिकरी पाकप्रदा कर्मणाम्। (भूतानां) त्वां याचे भवतीं किमप्यवितथं यो मद्विरोधी जनस्तस्यायुर्मम वांछितावधि भवेन्मातस्तवैवाज्ञया॥
6
मातः सम्यगुपासितुं जडमतिस्त्वां नैव शक्नोम्यहं यद्यप्यन्वित-दैशिकांघ्रिकमलानुक्रोशपात्रस्य मे। जन्तुः कश्चन चिन्तयत्यकुशलं यस्तस्य तद्वैशसं भूयाद्देवि विरोधिनो मम च ते श्रेयः पदासङ्गिनः॥
7
वाराहि व्यथमान-मानसगलत्सौख्यं तदाशाबलिं सीदन्तं यमपाकृताध्यवसितं प्राप्ताखिलोत्पादितम्। क्रन्दद्बन्धुजनैः कलङ्कितकुलं कण्ठव्रणोद्यत्कृमिं पश्यामि प्रतिपक्षमाशु पतितं भ्रान्तं लुठन्तं मुहुः॥
8
वाराहि त्वमशेषजन्तुषु पुनः प्राणात्मिका स्पन्दसे शक्ति व्याप्त-चराचरा खलु यतस्त्वामेतदभ्यर्थये। त्वत्पादाम्बुजसङ्गिनो मम सकृत्पापं चिकीर्षन्ति ये तेषां मा कुरु शङ्करप्रियतमे देहान्तरावस्थितिम्॥
9
इति श्रीवाराहीनिग्रहाष्टकं सम्पूर्णम्॥