shrIbhujangaprayAtAShTakam

Ashtakam

1

सदा गोपिकामण्डले राजमानं लसन्नृत्यबन्धादिलीलानिदानम्। गलद्दर्पकन्दर्पशोभाभिदानं भजे नन्दसूनुं सदानन्दरूपम्॥

2

व्रजस्त्रीजनानन्दसन्दोहसक्तं सुधावर्षिंवंशीनिनादानुरक्तम्। त्रिभङ्गाकृतिस्वीकृतस्वीयभक्तं भजे नन्दसूनुं सदाऽऽनन्दरूपम्॥

3

स्फुरद्रासलीलाविलासातिरम्यं परित्यक्तगेहादिदासैकगम्यम्। विमानस्थिताशेषदेवादिनम्यं भजे नन्दसूनुं सदाऽऽनन्दरूपम्॥

4

स्वलीलारसानन्ददुग्धोदमग्नं प्रियस्वामिनीबाहुकण्ठैकलग्नम्। रसात्मैकरूपाऽवबोघं त्रिभङ्गं भजे नन्दसूनुं सदाऽऽनन्दरूपम्॥

5

रसामोदसम्पादकं मन्दहासं कृताभीरनारीविहारैकरासम्। प्रकाशीकृतस्वीयनानाविलासं भजे नन्दसूनुं सदाऽऽनन्दरूपम्॥

6

जितानङ्गसर्वाङ्गशोभाभिरामं क्षपापूरितस्वामिनीवृन्दकामम्। निजाधीनतावर्तिरामातिवामं भजे नन्दसूनुं सदाऽऽनन्दरूपम्॥

7

स्वसङ्गीकृताऽनन्तगोपालबालं वृतस्वीयगोपीमनोवृत्तिपालम्। कृतानन्तचौर्यादिलीलारसालं भजे नन्दसूनुं सदानन्दरूपम्॥

8

घृताद्रीशगोवर्धनाधारहस्तं परित्रातगोगोपगोपीसमस्तम्। सुराधीशसर्वादिदेवप्रशस्तं भजे नन्दसूनुं सदाऽऽनन्दरूपम्॥