Shri Ramachandra Ashtakam
Ashtakam
1
येन नान्दीमुखं नीतान्यागामिन्या रणश्रियः। जानकीस्तनकुम्भाभ्यां लक्षितं लक्ष्मणेन च॥
2
जागरूकं जगत्त्राणे महस्तज्जयि जायताम्। वन्दामहे च वीर्यं रावणद्वेषिणः प्रभोः॥
3
(वयं वीर्यं) अद्याप्याधुष्यते घौषैर्बद्धसेतोर्यदम्बुधेः। चित्रं चरित्रं वीरस्य तस्य किं वर्णयाम्यहम्॥
4
यस्य कीर्तिं निकृन्तैरप्यास्यैरख्यदरिः स्वयम्। हनूमत्प्रमुखैर्वी रैरुर्व्यां दिव्यैर्जनैर्दिवि। परिवारितमव्याद्वः प्राभवं रावणद्रुहः॥
5
धनुषि निहितपारं वामहस्ताम्बुजेन प्रगुणितमदबाणं पाणिना दक्षिणेन। निभुवनकमनीयस्निग्धकं त्रिप्रवाहं भजत भजत भावं मैथिलीप्राणबन्धोः॥
6
विलङ्घ्योऽपि भीमं महाम्भोधिमेकं दयाम्भोधिरन्योऽप्यलङ्घयोऽङ्गजस्य। स लङ्कापुरीवीरभङ्गावतारः। चिरं गाहतां मे गिरं कैटभारिः॥
7
रचिता रसनिर्भरैर्गिरामिति रामायणनायकस्तुतिः। विजयाय चिरं विजृम्भतां विदुषाम् मोदवहा सदा भुवि॥
8
कृष्णकेलिशुकभक्तिकन्दलिं पुष्णकी भुवनभक्तिभूमिषु। कृष्णजां रघुकुलेन्दुसौरभे मुष्णती हृदयमेक (?) श्रुतेः॥