Shri Arunachala Ashtakam

Ashtakam

1

दर्शनादभ्रसदसि जननात्कमलालये। काश्यां तु मरणान्मुक्तिः स्मरणादरुणाचले॥

2

करुणापूरितापाङ्गं शरणागतवत्सलम्। तरुणेन्दुजटामौलिं स्मरणादरुणाचलम्॥

3

समस्तजगदाधारं सच्चिदानन्दविग्रहम्। सहस्ररथसोपेतं स्मरणादरुणाचलम्॥

4

काञ्चनप्रतिमाभासं वाञ्छितार्थफलप्रदम्। मां च रक्ष सुराध्यक्षं स्मरणादरुणाचलम्॥

5

बद्धचन्द्रजटाजूटमर्धनारीकलेवरम्। वर्धमानदयाम्भोधिं स्मरणादरुणाचलम्॥

6

काञ्चनप्रतिमाभासं सूर्यकोटिसमप्रभम्। बद्धव्याघ्रपुरीध्यानं स्मरणादरुणाचलम्॥

7

शिक्षयाखिलदेवारिभक्षितक्ष्वेलकन्धरम्। रक्षयाखिलभक्तानां स्मरणादरुणाचलम्॥

8

अष्टभूतिसमायुक्तमिष्टकामफलप्रदम्। शिष्टभक्तिसमायुक्तान् स्मरणादरुणाचलम्॥

9

विनायकसुराध्यक्षं विष्णुब्रह्मेन्द्रसेवितम्। विमलारुणपादाब्जं स्मरणादरुणाचलम्॥

10

मन्दारमल्लिकाजातिकुन्दचम्पकपङ्कजैः। इन्द्रादिपूजितां देवीं स्मरणादरुणाचलम्॥

11

सम्पत्करं पार्वतीशं सूर्यचन्द्राग्निलोचनम्। मन्दस्मितमुखाम्भोजं स्मरणादरुणाचलम्॥

12

इति श्रीअरुणाचलाष्टकं सम्पूर्णम्॥