Shri Bhagavannarayanacharya Ashtakam
Ashtakam
1
आनन्दभाष्यवेत्तारं विशिष्टाद्वैतवादिनम्। द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम्॥
2
दीक्षितं धर्मरक्षायां भक्तिसाधनसंयुतम्। द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम्॥
3
असन्मार्गान्निवार्याथ सन्मार्गस्य च दर्शकम्। द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम्॥
4
भवरोगाकुलानां च राममन्त्रौषधिप्रदम्। द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम्॥
5
मुद्रामालोर्ध्वपुण्ड्रादिधारकै सिद्धसेवितम्। द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम्॥
6
रामानन्दमतासक्तं योगीन्द्रं रामचिन्तकम्। द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम्॥
7
रहस्यत्रयबोधेन शिष्याज्ञानस्य हारकम्। द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम्॥
8
सत्याहिंसादयादीनां सद्धर्माणां महोदधिम्। द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम्॥