devyaShTakam
Ashtakam
1
श्रीगणेशाय नमः। महादेवीं महाशक्तिं भवानीं भववल्लभाम्। भवार्तिभञ्जनकरीं वन्दे त्वां लोकमातरम्॥
2
भक्तप्रियां भक्तिगम्यां भक्तानां कीर्तिवर्धिकाम्। भवप्रियां सतीं देवीं वन्दे त्वां भक्तवत्सलाम्॥
3
अन्नपूर्णां सदापूर्णां पार्वतीं पर्वपूजिताम्। महेश्वरीं वृषारूढां वन्दे त्वां परमेश्वरीम्॥
4
कालरात्रिं महारात्रिं मोहरात्रिं जनेश्वरीम्। शिवकान्तां शम्भुशक्तिं वन्दे त्वां जननीमुमाम्॥
5
जगत्कर्त्रीं जगद्धात्रीं जगत्संहारकारिणीम्। मुनिभिः संस्तुतां भद्रां वन्दे त्वां मोक्षदायिनीम्॥
6
देवदुःखहरामम्बां सदा देवसहायकाम्। मुनिदेवैः सदासेव्यां वन्दे त्वां देवपूजिताम्॥
7
त्रिनेत्रां शङ्करीं गौरीं भोगमोक्षप्रदां शिवाम्। महामायां जगद्बीजां वन्दे त्वां जगदीश्वरीम्॥
8
शरणागतजीवानां सर्वदुःखविनाशिनीम्। सुखसम्पत्करां नित्यां वन्दे त्वां प्रकृतिं पराम्॥
9
शरणागतजीवानां सर्वदुःखविनाशिनीम्। सुखसम्पत्करां नित्यां वन्दे त्वां प्रकृतिं पराम्॥
10
देव्यष्टकमिदं पुण्यं योगानन्देन निर्मितम्। यः पठेद्भक्तिभावेन लभते स परं सुखम्॥
11
इति योगानन्दविरचितं श्रीदेव्यष्टकं सम्पूर्णम्॥