vArAhyanugrahAShTakam
Ashtakam
1
ईश्वर उवाच मातर्जगद्रचननाटकसूत्रधार- स्त्वद्रूपमाकलयितुं परमार्थतोऽयम्। ईशोऽप्यनीश्वरपदं समुपैति तादृक्- कोऽन्यः स्तवं किमिव तावकमादधातु॥
2
नामानि किन्तु गृणतस्तव लोकतुण्डे नाडम्बरं स्पृशति दण्डधरस्य दण्डः। यल्लेशलम्बितभवाम्बुनिधिर्यतो यत्- त्वन्नामसंसृतिरियं ननु न स्तुतिस्ते॥
3
त्वच्चिन्तनादरसमुल्लसदप्रमेया- ऽऽनन्दोदयात्समुदितः स्फुटरोमहर्षः। मातर्नमामि सुदिनानि सदेत्यमुं त्वा- मभ्यर्थयेऽर्थमिति पूरयताद्दयालो॥
4
इन्द्रेन्दुमौलिविधिकेशवमौलिरत्न- रोचिश्चयोज्ज्वलितपादसरोजयुग्मे। चेतो मतौ मम सदा प्रतिबिम्बिता त्वं भूया भवानि विदधातु सदोरुहारे॥
5
लीलोद्धृतक्षितितलस्य वराहमूर्ते- र्वाराहमूर्तिरखिलार्थकरी त्वमेव। प्रालेयरश्मिसुकलोल्लसितावतंसा त्वं देवि वामतनुभागहरा रहस्य॥
6
त्वामम्ब तप्तकनकोज्ज्वलकान्तिमन्त- र्ये चिन्तयन्ति युवतीतनुमागलान्ताम्। चक्रायुधत्रिनयनाम्बरपोतृवक्त्रां तेषां पदाम्बुजयुगं प्रणमन्ति देवाः॥
7
त्वत्सेवनस्खलित पापचयस्य मात- र्मोक्षोऽपि यत्र न सतां गणनामुपैति। देवासुरोरगनृपालनमस्य पाद- स्तत्र श्रियः पटुगिरः कियदेवमस्तु॥
8
किं दुष्करं त्वयि मनोविषयं गतायां किं दुर्लभं त्वयि विधानवदर्चितायाम्। किं दुष्करं त्वयि सकृत्स्मृतिमागतायां किं दुर्जयं त्वयि कृतस्तुतिवादपुंसाम्॥
9
इति श्री वाराह्यनुग्रहाष्टकं सम्पूर्णम्॥