Shri Vidyaranya Ashtakam

Ashtakam

1

श्रीविद्यारण्यमुनिध्यानम् - अविद्यारण्यकान्तारे भ्रमतां प्राणिनां सदा। विद्यामार्गोपदेष्टारं विद्यारण्यगुरुं श्रये॥

2

विद्याविद्याविवेकेन पारं संसारवारिधेः। प्रापयत्यनिशं भक्तांस्तं विद्यारण्यमाश्रये॥

3

अथ श्रीविद्यारण्याष्टकम्। भवभीतिविभेत्तारं भवभूतिप्रदकटाक्षलवलेशम्। श्रीविद्यारण्यगुरुं भजे भजत्कल्पभूमिरुहम्॥

4

खरदीधितिनिभवसनं वरदानरतस्वकीयचित्ताब्जम्। श्रीविद्यारण्यगुरुं स्मरामि करनिर्जिताम्बुसंजातम्॥

5

करबदरिततर्कद्वयसांख्यद्वयजैमिनीयवेदान्तम्। श्रीविद्यारण्यगुरुं कलयाम्येणाङ्कशीतलस्वान्तम्॥

6

विजयपुरीवैभवदं प्रार्थितमाकृतसुवर्णघनवृष्ट्या। श्रीविद्यारण्यगुरुं कलयेऽहं राजराजिकलिताङ्घ्रिम्॥

7

विनतातनुभववाहनवनितानुग्रहविशेषततिपात्रम्। श्रीविद्यारण्यगुरुं विनताघवज्रविनाशकं वन्दे॥

8

कृतकृतान्तादिभयं कृम्यादिनिखिलकृपासुधाब्धिहृदयम्। श्रीविद्यारण्यगुरुं कृत्स्नजगत्कृष्नताबुधं कलये॥

9

संयमिमणिगणनम्यं चेष्टितवाणीहृदङ्गमतिरम्यम्। विद्यारण्यं सौम्यं वन्देऽजस्रं वितीर्णनतकाम्यम्॥

10

पारदजनिमृतसिन्धोः सारदनिगमान्तवेद्यतत्त्वस्य। श्रीविद्यारण्यगुरो वरदायभधृत्कराम्बुजाताव॥

11

इति श्रीविद्यारण्याष्टकं सम्पूर्णम् ।॥