Shri Radhikashtakam by shrikrishnadasakavi
Ashtakam
1
श्रीकृष्णदासकविराजविरचितम्। कुङ्कुमाक्तकाञ्चनाब्ज गर्वहारि गौरभा पीतनाञ्चिताब्जगन्धकीर्तिनिन्दसौरभा। वल्लवेशसूनु सर्ववाञ्छितार्थसाधिका मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका॥
2
कौरविन्दकान्तनिन्दचित्रपत्रशाटिका कृष्णमत्तभृङ्गकेलि फुल्लपुष्पवाटिका। कृष्णनित्यसङ्गमार्थपद्मबन्धुराधिका मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका॥
3
सौकुमार्यसृष्टपल्लवालिकीर्तिनिग्रहा चन्द्रचन्दनोत्पलेन्दुसेव्यशीतविग्रहा। स्वाभिमर्शवल्लवीशकामतापबाधिका मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका॥
4
विश्ववन्द्ययौवताभिवन्दतापि या रमा रूपनव्ययौवनादिसम्पदा न यत्समा। शीलहार्दलीलया च सा यतोऽस्ति नाधिका मह्यमात्मपादपद्मदास्यदास्तु राधिका॥
5
रासलास्यगीतनर्मसत्कलालिपण्डिता प्रेमरम्यरूपवेशसद्गुणालिमण्डिता। विश्वनव्यगोपयोषिदालितोऽपि याऽधिका मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका॥
6
नित्यनव्यरूपकेलिकृष्णभावसम्पदा कृष्णरागबन्धगोपयौवतेषु कम्पदा। कृष्णरूपवेशकेलिलग्नसत्समाधिका मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका॥
7
स्वेदकम्पकण्टकाश्रुगद्गदादिसञ्चिता मर्षहर्षवामतादि भावभूषणाञ्चिता। कृष्णनेत्रतोषिरत्नमण्डनालिदाधिका मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका॥
8
या क्षणार्धकृष्णविप्रयोगसन्ततोदिता- नेकदैन्यचापलादिभाववृन्दमोदिता। यत्नलब्धकृष्णसङ्गनिर्गताखिलाधिका मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका॥
9
अष्टकेन यस्त्वनेन नौति कृष्णवल्लभां दर्शनेऽपि शैलजादियोषिदालिदुर्लभाम्। कृष्णसङ्गनन्दतात्मदास्यसीधुभाजनं तं करोति नन्दतालिसञ्चयाशु सा जनम्॥