Shri Hari Mangala Ashtakam
Ashtakam
1
श्रीशाण्डिल्य उवाच। अथ स्तोत्रवरं दिव्यं मङ्गालानां च मङ्गलम्। श्रीनन्दनन्दनहरेः कालिन्द्या समुदीरितम्॥
2
जय जयाजय मङ्गलश्रुतिगणेन्दुमुखीव्रजसंस्तुत। जय जयात्मपदाम्बुजसंश्रितनतसुरेन्द्रमतानुमहेन्दिर॥
3
जय जयाजय मङ्गलमङ्गलविकचनीलकुशेशयसुन्दर। विधृतकाञ्चनकान्तनवाम्बर विविधभूषणभूषितभूषण॥
4
जय जयाजय मङ्गलमङ्गल विकचनीलकुशेशयसुन्दर। तव यदाब्जरजोऽभसिता जनाः जगति मङ्गल जयन्ति शुचिप्रभाः॥
5
जय जयाजय मङ्गलमङ्गल मुनिवरैः परिणूत्तमहोदय। सकलविश्वकुलानि कुलाणुभिस्तव कृतानि वदन्ति मनीषिणः॥
6
जय जयाजय मङ्गलमङ्गल जयति मङ्गलमङ्गलमिदं तव। तदनु मङ्गलमेव विभूषणं वर सुमाल्यमुखं विधृतं विभो॥
7
जय जयाजय मङ्गलमङ्गल व्रजजनीव्रजमङ्गल निजव्रजम्। मुरलिका मुकुटं लकुटं स्रजः सकलमेव विभो तव मङ्गलम्॥
8
जय जयाजय मङ्गलमङ्गल जगति ते भवनं विपिनं गिरिः। सरिदलं वचनं चरितं श्रुतं निखिलमङ्गलमस्ति न चापरम्॥
9
जय जयाजय मङ्गलमङ्गल कुरु विभो भवमङ्गलमङ्गलम्। तव मुखाम्बुजदर्शनतः परं भवति आर्य सुमङ्गलमङ्गलम्॥
10
इति श्रीमङ्गलस्तोत्रं हरेरद्भुतकर्मणः। पठेदुषसि यस्तस्य मङ्गलं ह्याष्टयामिकम्॥