Vinayaka Ashtakam

Ashtakam

1

एकदन्तमीशपुत्रमाखुवाहमीश्वरं विघ्नसङ्घध्वान्तसूर्यमन्तरायनायकम्। अच्युताद्यशेषदेवपूजिताङ्घ्रिपङ्कजं विघ्नशैलवज्रिणं विनायकं नमाम्यहम्॥

2

कामरूपधारिणं नागयज्ञसूत्रिणं कुङ्कुमोत्थकायकान्तिशोभितं वराननम्। काञ्चनाभिभास्वरं च वासवादिवन्दितं विघ्नशैलवज्रिणं विनायकं नमाम्यहम्॥

3

नन्दिवाहनन्दने सुरेन्द्रनाथवन्दितं नन्दिभृङ्गिनन्दनाथनारदादिनृत्यकम्। नन्दगोपनागराजपूर्वकैर्नमस्कृतं विघ्नशैलवज्रिणं विनायकं नमाम्यहम्॥

4

सर्पवेष्टितोदरं च सर्पमालधारिणं शङ्करादिपूजितं शिवात्मजं सुखात्मकम्। सावधानताकरं सरस्वतीप्रदायकं विघ्नशैलवज्रिणं विनायकं नमाम्यहम्॥

5

विघ्नमत्तनागसिंहमुग्रनेत्रनासिकं विघ्नमेघजालनाशकारिचण्डमारुतम्। विघ्नदाववह्निवारिवारिवारिवाहकं विघ्नशैलवज्रिणं विनायकं नमाम्यहम्॥

6

विघ्नसिन्धुवाडवाग्निमिन्दुखण्डमण्डितं विघ्नगोपमष्टसिद्धियुक्तभक्तसेवितम्। शूर्पकर्णवक्रतुण्डकुम्भगण्डशोभितं विघ्नशैलवज्रिणं विनायकं नमाम्यहम्॥

7

दक्षयक्षपक्षिमुख्यरक्षिताङ्घियुग्मकं भुक्तिमुक्तियुक्तिशान्तियुक्तपूजितं विभुम्। देवदेववंशवृद्धिसिद्धिसाधकं मुदा विघ्नशैलवज्रिणं विनायकं नमाम्यहम्॥

8

देवदैत्ययोगिसिद्धचारणाभिसेवितं सर्पखेटभूजभूतसङ्घसाधुवेष्टितम्। ईप्सितार्थदायकं विशेषकर्मकारकं विघ्नशैलवज्रिणं विनायकं नमाम्यहम्॥

9

श्रीविनायकाष्टकं हि शङ्करेण निर्मितं शङ्करस्य सौख्यदं भक्तविघ्ननाशकम्। ये पठन्ति सादरं समस्तसिद्धिदं स्तवं ते त्वभीष्टसिद्धिपात्रभावमाप्नुवन्ति शम्॥