Shri Kalahastishvaraa Ashtakam
Ashtakam
1
श्रीलसद्विलासलोलशेषतल्पसायकं शैलकन्यकास्यचन्दचन्द्रिकाचकोरकम्। भालनेत्रवह्निदग्धपञ्चबाणरूपकं कालहस्तिनायकं सुखप्रदायकं भजे॥
2
कालकूटभीकराग्निकण्ठमध्यधारणं कालकर्मखाम्बुकाशखण्डनोग्रहारिणम्। कालमृत्युगर्ववल्लिकासमूलदारणं कालहस्तिनायकं सुखप्रदायकं भजे॥
3
स्थूलसूक्ष्मनित्यसत्यशोभितं शुभोदितं बालचन्द्रशेखरं कृपासुधारसाकरम्। लालितव्रतार्थिलोकबालकर्णमूलकं कालहस्तिनायकं सुखप्रदायकं भजे॥
4
बालिकावियोगियोगिभावपद्मवासितं धालधल्यकोटिशीतधामसुप्रकाशितम्। कीलसन्निभाग्रशातशूलवृद्धगाशितं कालहस्तिनायकं सुखप्रदायकं भजे॥
5
भ्रूलतानिरीक्षणप्रभूतलोकजालकं लोलताद्रिजालसत्कपोल(कन्धरं) शिवम्। खेलसत्प्रकल्पितेन्द्रजालतन्त्रकीलकं कालहस्तिनायकं सुखप्रदायकं भजे॥
6
व्यालमक्षिकाग्ररत्नमातृकाविभूषणं कालसिन्धुकासुरारिपङ्क (रूप)भूषणम्। शीलवर्तनप्रयुक्तशिष्टभक्तपोषणं कालहस्तिनायकं सुखप्रदायकं भजे॥
7
नीलदेहसेवितामरालदेहयापितं मूलमन्त्रकर्णमूर्तिमोचनं त्रिलोचनम्। शूलिनं सुवर्णसिन्धुमौलिनं कपालिनं कालहस्तिनायकं सुखप्रदायकं भजे॥
8
क्षालितप्रभक्तकर्मजातरोगकर्दमं क्षालिकासनाथमिन्द्रशैलराजकर्दमम्। ज्वालितात्मरोषभीषकेलिदक्षनिर्दमं कालहस्तिनायकं सुखप्रदायकं भजे॥
9
इति श्रीकालहस्तीश्वराष्टकं सम्पूर्णम्॥