shrIdInabandhvaShTakam

Ashtakam

1

यस्मादिदं जगदुदेति चतुर्मुखाद्यं यस्मिन्नवस्थितमशेषमशेषमूले। यत्रोपयाति विलयं च समस्तमन्ते दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

2

चक्रं सहस्रकरचारु करारविन्दे गुर्वी गदा दरवरश्च विभाति यस्य। पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

3

येनोद्धृता वसुमती सलिले निमग्ना नग्ना च पाण्डववधूः स्थगिता दुकूलैः। सम्मोचितो जलचरस्य मुखाद्गजेन्द्रो दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

4

यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिम् कोपेक्षणेन दनुजा विलयं व्रजन्ति। भीताश्चरन्ति च यतोऽर्कयमानिलाद्याः दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

5

गायन्ति सामकुशला यमजं मखेषु ध्यायन्ति धीरमतयो यतयो विविक्ते। पश्यन्ति योगिपुरुषाः पुरुषं शरीरे दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

6

आकाररूपगुणयोगविवर्जितोऽपि भक्तानुकम्पननिमित्तगृहीतमूर्तिः। यः सर्वगोऽपि कृतशेषशरीरशय्यो दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

7

यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै- राराध्यते भवदवानलदाहशान्त्यै। सर्वापराधमविचिन्त्य ममाखिलात्मा दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

8

यन्नामकीर्तनपरः श्वपचोऽपि नूनं हित्वाखिलं कलिमलं भुवनं पुनाति। दग्ध्वा ममाघमखिलं करुणेक्षणेन दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

9

दीनबन्ध्वष्टकं पुण्यं ब्रह्मानन्देन भाषितम्। यः पठेत् प्रयतो नित्यं तस्य विष्णुः प्रसीदति॥

10

इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीदीनबन्ध्वष्टकं सम्पूर्णम्॥