Shri Sharada Ashtakam
Ashtakam
1
सकलनिगमसारे वेदवेदान्तवेद्ये प्रणतजनमनोज्ञे शृङ्गपूर्वासचित्ते। निखिलसुकविगीते शङ्करास्याब्जहंसे त्वमिह करुणया मां शारदे पाहि नित्यम्॥
2
विधिवदननिवासे चारुचन्द्राभवक्त्रे सकलविबुधवन्द्ये सर्वलोकैकमान्ये। वचसि रुचिरशक्तेर्दानशीले ममाम्ब त्वमिह करुणया मां शारदे पाहि नित्यम्॥
3
निजशिशुसमवायानक्षरारम्भकार्ये प्रतिदिनमवलोक्य स्वच्छविद्या ददासि। विधिहरिहरमुख्यास्त्वत्प्रसादाज्जयन्ति त्वमिह करुणया मां शारदे पाहि नित्यम्॥
4
कनककलशरम्ये दक्षिणाम्नायपीठे मणिगणयुतहारैर्भूषिता पट्टवस्त्रैः। गुरुवरकरपद्मेनार्चिता दिव्यमन्त्रैः त्वमिह करुणया मां शारदे पाहि नित्यम्॥
5
करितुरगसुवाद्यैर्नृत्यसङ्गीतघोषैः परमगुरुवरेण्यैर्भक्तवृन्दैश्च युक्ता। निरुपमरथमध्ये दिव्यरूपा व्रजन्ती त्वमिह करुणया मां शारदे पाहि नित्यम्॥
6
तव पदयुगलं हि प्रत्यहं प्राप्य भक्ताः भजननमनपूजा भक्तिभावैर्विधाय। सकलपुरुषकाम्यं प्राप्नुवन्तीह मात- र्त्वमिह करुणया मां शारदे पाहि नित्यम्॥
7
प्रथमनमनयोग्यं शक्तियुक्तं गणेशं नतिरतबटुवृन्दाः पूजयन्ति प्रदोषे। तदनु निखिलकाम्यं वीक्ष्य तेभ्यो ददासि त्वमिह करुणया मां शारदे पाहि नित्यम्॥
8
श्रुतिनिगदितयागान् कुर्वते श्रद्धदानाः बहुविधधनधान्यान्यर्पयन्त्यत्र केचित्। कथमहमतिदीनः शक्तिहीनो भजेयं त्वमिह करुणया मां शारदे पाहि नित्यम्॥
9
इति शृङ्गगिरिस्थस्य राष्ट्रियसंस्कृतसंस्थानान्तर्गतस्य राजीवगान्धीपरिसरस्य प्राचार्यैः आचार्यैः ए. पि. सच्चिदानन्द-उडुपवर्यैः विरचितं शारदाष्टकं सम्पूर्णम्। रचयिता ए. पि. सच्चिदानन्द उडुपवर्यः प्राचार्यः, राजीवगान्धीपरिसरः, शृङ्गगिरिः गायनः आयुष्मान् चिन्मयभट्टः॥