gaNanAyakAShTakam
Ashtakam
1
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम्। लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम्॥
2
मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम्। बालेन्दुसुकलामौलिं वन्देऽहं गणनायकम्॥
3
अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम्। भक्तिप्रियं मदोन्मत्तं वन्देऽहं गणनायकम्॥
4
चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितम्। चित्ररूपधरं देवं वन्देऽहं गणनायकम्॥
5
गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम्। पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम्॥
6
मूषकोत्तममारुह्य देवासुरमहाहवे योद्धुकामं महावीर्यं वन्देऽहं गणनायकम्॥
7
यक्षकिन्नरगन्धर्वैस्सिद्धविद्याधरैस्सदा स्तूयमानं महाबाहुं वन्देऽहं गणनायकम्॥
8
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम्। सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम्॥
9
गणाष्टकमिदं पुण्यं यः पठे सततं नरः सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत्॥
10
इति श्रीगणनायकाष्टकं सम्पूर्णम् ।॥