Shri Lalitashtakam
Ashtakam
1
श्रीललिताप्रणामस्तोत्रम् श्रीललिताय नमः। राधामुकुन्द पदसम्भवघर्मबिन्दु निर्मञ्छनोपकरणीकृत देहलक्षाम्। उत्तुङ्गसौहृदविशेषवशात् प्रगल्भां देवीं गुणैः सुललितां ललितां नमामि॥
2
राकासुधाकिरणमण्डलकान्तिदण्डि वक्त्रश्रियं चकितचारू चमूरुनेत्राम्। राधाप्रसाधनविधानकलाप्रसिद्धां देवीं गुणैः सुललितां ललितां नमामि॥
3
लास्योल्लसद्भुजगशत्रुपतत्रचित्र पट्टांशुकाभरणकञ्चुलिकाञ्चिताङ्गीम्। गोरोचनारुचिविगर्हण गौरिमाणं देवीं गुणैः सुललितां ललितां नमामि॥
4
धूर्ते व्रजेन्द्रतनये तनु सुष्ठुवाम्यं मा दक्षिणा भाव कलङ्किनि लाघवाय। राधे गिरं शृणु हितामिति शिक्षयन्तीं देवीं गुणैः सुललितां ललितां नमामि॥
5
राधामभिव्रजपतेः कृतमात्मजेन कूटं मनागपि विलोक्य विलोहिताक्षीम्। वाग्भङ्गिभिस्तमचिरेण विलज्जयन्तीं देवीं गुणैः सुललितां ललितां नमामि॥
6
वात्सल्यवृन्दवसतिं पशुपालराज्ञ्याः सख्यानुशिक्षणकलासु गुरुं सखीनाम्। राधाबलावरज जीवितनिर्विशेषां देवीं गुणैः सुललितां ललितां नमामि॥
7
यां कामपि व्रजकुले वृषभानुजायाः प्रेक्ष्य स्वपक्षपदवीमनुरुद्ध्यमानाम्। सद्यस्तदिष्टघटनेन कृतार्थयन्तीं देवीं गुणैः सुललितां ललितां नमामि॥
8
राधाव्रजेन्द्रसुतसङ्गमरङ्गचर्यां वर्यां विनिश्चितवतीमखिलोत्सवेभ्यः। तां गोकुलप्रियसखीनिकुरम्बमुख्यां देवीं गुणैः सुललितां ललितां नमामि॥
9
नन्दनमूनि ललितागुणलालितानि पद्यानि यः पठति निर्मलदृष्टिरष्टौ। प्रीत्या विकर्षति जनं निजवृन्दमध्ये तं कीर्तिदापतिकुलोज्ज्वलकल्पवल्ली॥
10
इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीललिताष्टकं श्रीललिताप्रणामस्तोत्रं सम्पूर्णम् ।॥