Shri Laharamacharya Ashtakam
Ashtakam
1
भक्तियोगोपदेशेन मृत्युभीतिनिवारकम्। लाहाराममहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
2
सत्याहिंसोपकारादिधर्माणामुपदेशकम्। लाहाराममहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
3
विशिष्टाद्वैततत्त्वज्ञमानन्दभाष्यवित्तमम्। लाहाराममहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
4
भक्त्यधिकारालाभार्थं पञ्चसंस्कारकारकम्। लाहाराममहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
5
रामानन्दमताम्भोधेर्वर्धकं पूर्णचन्द्रवत्। लाहाराममहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
6
त्रयाणां च रहस्यानामर्थबोधनतत्परम्। लाहाराममहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
7
जगज्जन्मादिहेतु-श्रीरामब्रह्मनिवेदकम्। लाहाराममहं वन्दे द्वाराचार्यं जगद्गुरुम्॥
8
श्रीटीलाचार्यशिष्यं च भक्तानां विबुधद्रुमम्। लाहाराममहं वन्दे द्वाराचार्यं जगद्गुरुम्॥