shrIbadrInAthAShTakam

Ashtakam

1

भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम्। चतुर्वर्गप्रदातारं श्रीबद्रीशं नमाम्यहम्॥

2

तापत्रयहरं साक्षाच्छान्तिपुष्टिबलप्रदम्। परमानन्ददातारं श्रीबद्रीशं नमाम्यहम्॥

3

सद्यः पापक्षयकरं सद्यः कैवल्यदायकम्। लोकत्रयविधातारं श्रीबद्रीशं नमाम्यहम्॥

4

भक्तवाञ्छाकल्पतरुं करुणारसविग्रहम्। भवाब्धिपारकर्तारं श्रीबद्रीशं नमाम्यहम्॥

5

सर्वदेवनुतं शश्वत् सर्वतीर्थपदं विभुम्। लीलयोपात्तवपुषं श्रीबद्रीशं नमाम्यहम्॥

6

अनादिनिधनं कालकालं भीमयमच्युतम्। सर्वाश्चर्यमयं देवं श्रीबद्रीशं नमाम्यहम्॥

7

गन्धमादनकूटस्थं नरनारायणात्मकम्। बदरीखण्डमध्यस्थं श्रीबद्रीशं नमाम्यहम्॥

8

शत्रूदासीनमित्राणां सर्वज्ञं समदर्शिनम्। ब्रह्मानन्दचिदाभासं श्रीबद्रीशं नमाम्यहम्॥

9

श्रीबद्रीशाष्टकमिदं यः पठेत्प्रयतः शुचिः। सर्वपापविनिमुक्तः स शान्तिं लभते पराम्॥

10

इति श्रीबद्रीनाथाष्टकं सम्पूर्णम्॥