ku~njavihAryaShTakam 1

Ashtakam

1

प्रथमं श्रीकुञ्जविहार्यष्टकं इन्द्रनीलमणिमञ्जुलवर्णः फुल्लनीपकुसुमाञ्चितकर्णः। कृष्णलाभिरकृशोरसिहारी सुन्दरो जयति कुञ्जविहारी॥

2

राधिकावदनचन्द्रचकोरः सर्ववल्लववधूधृतिचोरः। चर्चरीचतुरताञ्चितचारी चारुतो जयति कुञ्जविहारी॥

3

सर्वताः प्रतिथकौलिकपर्वध्वंसनेन हृतवासवगर्वः। गोष्ठरक्षणकृते गिरिधारी लीलया जयति कुञ्जविहारी॥

4

रागमण्डलविभूषितवंशी विभ्रमेणमदनोत्सवशंसी- स्तूयमानचरितः शुकशारिश्रोणिभिर्जयति कुञ्जविहारी॥

5

शातकुम्भरुचिहारिदुकूलः केकिचन्द्रकविराजितचूडः। नव्ययौवनलसद्व्रजनारीरञ्जनो जयति कुञ्जविहारी॥

6

स्थासकीकृतसुगन्धिपटीरः स्वर्णकाञ्चिपरिशोभिकटीरः। राधिकोन्नतपयोधरवारीकुञ्जारो जयति कुञ्जविहारी॥

7

गौरधातुतिलकोज्ज्वलफालः केलिचञ्चलितचम्पकमालः। अद्रिकन्दरगृहेष्वभिसारी सुभ्रुवां जयति कुञ्जविहारी॥

8

विभ्रमोच्चलदृगञ्चलनृत्यक्षिप्तगोपललनाखिलकृत्यः। प्रेममत्तवृषभानुकुमारीनागरो जयति कुञ्जविहारी॥

9

अष्टकं मधुरकुञ्जविहारी क्रीडया पठति यः किल हारी। स प्रयाति विलसत्परभागं तस्य पादकमलार्चनरागम्॥