Shadgosvamyashtakam
Ashtakam
1
नानाशास्त्रविचारणैकनिपुणौ सद्धर्मसंस्थापकौ लोकानां हितकारिणौ त्रिभुवने मान्यौ शरण्याकरौ। राधाकृष्णपदारविन्दभजनानन्देन मत्तालिकौ वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ॥
2
श्रीगौराङ्गगुणानुवर्णनविधौ श्रद्धासमृद्ध्यन्वितौ पापोत्तापनिकृन्तनौ तनुभृतां गोविन्दगानामृतैः। आनन्दाम्बुधिवर्धनैकनिपुणौ कैवल्यनिस्तारकौ वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ॥
3
त्यक्त्वा तूर्णमशेषमण्डलपतिश्रेणीं सदा तुच्छवत् भूत्वा दीनगणेशकौ करुणया कौपीनकन्थाश्रितौ। गोपीभावरसामृताब्धिलहरीकल्लोलमग्नौ मुहु- र्वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ॥
4
कूजत्कोकिलहंससारसगणाकीर्णे मयूराकुले नानारत्ननिबद्धमूलविटपश्रीयुक्तवृन्दावने। राधाकृष्णमहर्निशं प्रभजतौ जीवार्थदौ यौ मुदा वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ॥
5
सङ्ख्यापूर्वकनामगाननतिभिः कालावसानीकृतौ निद्राहारविहारकादिविजितौ चात्यन्तदीनौ च यौ। राधाकृष्णगुणस्मृतेर्मधुरिमाऽऽनन्देन सम्मोहितौ वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ॥
6
राधाकुण्डतटे कलिन्दतनयातीरे च वंशीवटे प्रेमोन्मादवशादशेषदशया ग्रस्तौ प्रमत्तौ सदा। गायन्तौ च कदा हरेर्गुणवरं भावाभिभूतौ मुदा वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ॥
7
हे राधे व्रजदेवीके च ललिते हे नन्दसूनो कुतः श्रीगोवर्धनकल्पपादपतले कालिन्दीवने कुतः। घोषन्ताविति सर्वतो व्रजपुरे खेदैर्महाविह्वलौ वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ॥
8
इति श्रीश्रीनिवासाचार्यविरचितं षड्गोस्वाम्यष्टकं सम्पूर्णम् ।॥