Shri Ramarangidevacharya Ashtakam

Ashtakam

1

सम्पादकं च शिष्याणां संस्कारपञ्चकस्य हि। श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम्॥

2

वेदान्तवेदिनं प्राज्ञं विशिष्टाद्वैतवादिनम्। श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम्॥

3

रामभक्तिप्रदं सिद्धं सिद्धवृन्देन वन्दितम्। श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम्॥

4

श्रीरामानन्दीयसिद्धान्तसिन्धुपूर्णविधुं बुधम्। श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम्॥

5

तारकादिरहस्याणां रहस्यज्ञं तपोनिधिम्। श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम्॥

6

श्रीमदानन्दभाष्याणां मर्मविच्छोकहारकम्। श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम्॥

7

रामस्य कीर्त्तनासक्तं रामाराधनतत्परम्। श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम्॥

8

श्रीमद्वैष्णवधर्मस्य शिक्षकं चाथ रक्षकम्। श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम्॥