Shri Shachinandanavijayashtakam
Ashtakam
1
गदाधर यदा परः स किल कश्चनालोकितो मया श्रितगयाध्वना मधुरमूर्तिरेकस्तदा। नवाम्बुद इव ब्रुवन् धृतनवाम्बुदो नेत्रयो- र्लुठन् भुवि निरुद्धवाग्विजयते शचीनन्दनः॥
2
अलक्षितचरीं हरीत्युदितमात्रतः किं दशां असावतिबुधाग्रणीरतुलकम्पसम्पादिकाम्। व्रजन्नहह मोदते न पुनरत्र शास्त्रेष्विति स्वशिष्यगणवेष्टितो विजयते शचीनन्दनः॥
3
हा हा किमिदमुच्यते पठ पठात्र कृष्णं मुहु- र्विना तमिह साधुतां दधति किं बुधा धातवः। प्रसिद्ध इह वर्णसङ्घटितसम्यगाम्नायकः स्वनाम्नि यदिति ब्रुवन्विजयते शचीनन्दनः॥
4
नवाम्बुजदले यदीक्षणसवर्णतादीर्घते सदा स्वहृदि भाव्यतां सपदि साध्यतां तत्पदम्। स पाठयति विस्मितान् स्मितमुखः स्वशिष्यानिति प्रतिप्रकरणं प्रभुर्विजयते शचीनन्दनः॥
5
क्व यानि करवाणि किं क्व नु मया हरिर्लभ्यतां तमुद्दिशतु कः सखे कथय कः प्रपद्येत माम्। इति द्रवति घूर्णते कलितभक्तकण्ठः शुचा स मूर्च्छयति मातरं विजयते शचीनन्दनः॥
6
स्मरार्बुददुरापया तनुरुचिच्छटाच्छायया तमः कलितमःकृतं निखिलमेव निर्मूलयन्। नृणां नयनसौभगं दिविषदां मुखैस्तारयन् लसन्नधिधरः प्रभुर्विजयते शचीनन्दनः॥
7
अयं कनकभूधरः प्रणयरत्नमुच्चैः किरन् कृपातुरतया व्रजन्नभवदत्र विश्वम्भरः। यदक्षि पथसञ्चरत्सुरधुनीप्रवाहैर्निजं परं च जगदार्द्रयन्विजयते शचीनन्दनः॥
8
गतोऽस्मि मधुरां मम प्रियतमा विशाखा सखी गता नु बत किं दशां वद कथं नु वेदानि ताम्। इतीव स निजेच्छया व्रजपतेः सुतः प्रापित- स्तदीयरसचर्वणां विजयते शचीनन्दनः॥
9
इदं पठति योऽष्टकं गुणनिधे शचीनन्दन प्रभो तव पदाम्बुजे स्फुरदमन्दविश्रम्भवान्। तमुज्ज्वलमतिं निजप्रणयरूपवर्गानुगं विधाय निजधामनि द्रुतमुरीकुरुष्व स्वयम्॥
10
इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीशचीनन्दनविजयाष्टकं सम्पूर्णम् ।॥