Shri Pashupatyashtakam
Ashtakam
1
ध्यानम्। ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम्। पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्॥
2
अथ स्तोत्रम्। पशुपतिं द्युपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम्। प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम्॥
3
न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम्। अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम्॥
4
मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम्। प्रमथभूतगणैरपि सेवितं भजत रे मनुजा गिरिजापतिम्॥
5
शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम्। अभयदं करुणावरुणालयं भजत रे मनुजा गिरिजापतिम्॥
6
नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम्। चितिरजोधवलीकृतविग्रहं भजत रे मनुजा गिरिजापतिम्॥
7
मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम्। प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम्॥
8
मदमपास्य चिरं हृदि संस्थितं मरणजन्मजराभयपीडितम्। जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम्॥
9
हरिविरञ्चिसुराधिपपूजितं यमजनेशधनेशनमस्कृतम्। त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम्॥
10
पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपतिसूरिणा। पठति संशृणुते मनुजः सदा शिवपुरीं वसते लभते मुदम्॥
11
इति श्रीपशुपत्यष्टकं सम्पूर्णम् ।॥