Shri Navayuvadvandvadidrikshashtakam

Ashtakam

1

स्फुरदमलमधूलीपूर्णराजीवराज- न्नवमृगमदगन्धद्रोहिदिव्याङ्गगन्धं मिथ इह उदितैरुन्मादितान्तर्विघूर्ण- द्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे॥

2

कनकगिरिखलोद्यत्केतकीपुष्पदीव्य- न्नवजलधरमालाद्वेषिदिव्योरुकान्त्या। सबलमिव विनोदैरीक्षयात्स्वं मिथस्त- द्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे॥

3

निरुपमनवगौरीनव्यकन्दर्पकोटि प्रठितमधुरिमोर्मिक्षालितश्रीनखान्तम्। नवनवरुचिरागैर्हृष्टमिष्टैर्मिथस्त- द्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे॥

4

मदनरसविघूर्णन्नेत्रपद्मान्तनृत्यैः परिकलितमुखेन्दुह्रीविनाम्रं मिथोऽल्पैः। अपि च मधुरवाचं श्रोतुमावर्धिताशं व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे॥

5

स्मरसमरविलासोद्गारमङ्गेषु रङ्गै- स्तिमितनवसखीषु प्रेक्षमानासु भङ्ग्या। स्मितमधुरदृगन्तैर्ह्रीणसम्फुल्लवक्त्रं व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे॥

6

मदनसमरचर्याचार्यमापूर्णपुण्य प्रसरनववधूभिः प्रार्थ्यपादानुचर्यम्। स्मररसिकमेकप्राणमन्योन्यभूषं व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे॥

7

तटमधुरनिकुञ्जे श्रान्तयोः श्रीसरस्यः प्रचुरजलविहारैः स्निग्धवृन्दैः सखीनाम्। उपहृतमधुरङ्गैः पाययात्तन्मिथस्तै- र्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे॥

8

कुसुमशररसौघग्रन्थिभिः प्रेमदाम्ना मिथ इह वशवृत्त्या प्रौढयाद्धा निबद्धम्। अखिलजगति राधामाधवाख्यप्रसिद्धं व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे॥

9

प्रणयमधुरमुच्चैर्नव्ययूनोर्दिदृक्षा ष्टकमिदमतियत्नाद्यः पठेत्स्फारदैन्यैः। स खलु परमशोभापुञ्जमञ्जु प्रकामं युगलमतुलमक्ष्णोः सेव्यमारात्करोति॥

10

इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीनवयुवद्वन्द्वदिदृक्षाष्टकं सम्पूर्णम् ।॥