rAmanAthAShTakam
Ashtakam
1
गजाजिनं शूलकपालपाणिनं जटाधरं चन्द्रकलावतंसम्। उमापतिं कालकालम् त्रिनेत्रं श्रीरामनाथं शिरसा नमामि॥
2
समस्तपापक्षयदिव्यनामं प्रपन्नसंसारगतौषधं त्वम्। नामाज्जनाभीष्टवरप्रदं च श्रीरामनाथं शिरसा नमामि॥
3
साम्बं प्रवालेन्दुशिलासमाभं शम्भुं जटाऽलङ्कृतचन्द्रमौलिम्। दिक्पूतवासोवसनं वरेण्यं श्रीरामनाथं शिरसा नमामि॥
4
पुरत्रयध्वंसनतीव्रबाणं कामाङ्गसंहारकपालनेत्रम्। सन्दर्शनात्त्वत्स्थलमस्तपापं श्रीरामनाथं शिरसा नमामि॥
5
भवान्धकरोग्रगभस्तिमन्तं संसरकान्तारमहादवाग्निम्। मनोरथःपूरणकालमेघं श्रीरामनाथं शिरसा नमामि॥
6
सितांशुवक्त्रं स्मितचन्द्रिकाभं कपालमालोडुगणप्रचारम्। ऋतध्वजं व्योमतनुं महान्तं श्रीरामनाथं शिरसा नमामि॥
7
सुरासुरैर्ज्येष्ठसुरेन्द्रवन्द्यं सुरासुरोद्भासुरभूसुराद्यम्। सुरापगाशोभितशेखरं तं श्रीरामनाथं शिरसा नमामि॥
8
सेतोर्मध्ये पर्वताग्रे पवित्रे गौर्या साकं भ्राजमानं महेशम्। ज्योतिस्वरूपं चन्द्रसुर्याग्निनेत्रं श्रीरामनाथं शिरसा नमामि॥
9
रामेणैवं संस्तुतो रामनाथः प्रादुर्भूतो लिङ्गमध्याद्भवान्या। दृष्ट्वा रुद्रं राघवः पूर्णकामः नत्वा स्तुत्वा प्रार्थयामास शम्भुम्॥
10
इति रामनाथाष्टकं सम्पूर्णम्॥