Manah Prarthana Ashtakam
Ashtakam
1
(सारङ्गवृत्तं) कामेन मूढः स्वकामेक्षणोत्कोऽत्र कामेतिनाति न धामेह मोदाय। मा मे मनो! वाचमामेति मन्यस्व रामे त्रिलोकीललामे रमस्वाशु॥
2
(१)सव्यं करं यस्य भव्यं श्रितं धन्वदक्षे द्विषन्नाशदक्षेषुयुग्मं च। क्षत्रेश्वरं पद्मपत्रेक्षणं राममेकं भज स्वान्त ! के कं परार्थाय॥
3
धामारमजद्रव्यरामादिकं चित्त !। कामामयायैव मा मा श्वसिह्यत्र। क्ष्मामावरात्त्वं(२) सतामाश्रयाद्धन्त रामादृते यासि कामास्मसिद्धिं नु॥
4
लङ्कावरारि कलङ्कापहं भूम्यलङ्कारमिच्छाबलं कामदं चित्त !। साकेतपं हेतुना केन नो यासि नाकेऽपि नम्रा मुदा केन तं हन्त॥
5
ये वासवेशादिदेवा भजत्येनमेवाधिपं पादसेवारताः साधु। सीताधवं दत्तभीताभयं चित्तवीताऽगुणं मेदिनीतारकं प्रैहि॥
6
पापक्षयेऽहं स्वतापनमीशानमापद्मजाधारमापद्धरं मङ्क्षु। शोकापहं सर्वलोकाधिपं याहि भो का वदाम्बा न तो कासुखं(३) हन्ति॥
7
कर्तास्य विश्वस्य भर्तापि चान्ते स हर्ता श्रियः प्राणभर्ता शृणु स्वान्त!। माता पिता सैव दाताविता को नु धाता परोऽस्माद्विधातायमे वाङ्ग!॥
8
श्रुत्या पदं यस्य नुत्या वृतं यः प्रकृत्या मृदुः साधुकृत्याश्रयश्चित्त!। व्यासादिभिः सद्भिरासादितं सर्वदासाप्त ! मे ह्यप्रयासाय मोदाय॥