Aparadhashtakam or Shivashtakam

Ashtakam

1

आशावशादष्टदिगन्तराले देशान्तरभ्रान्तमशान्तबुद्धिम्। आकारमात्रादवनीसुरं मा- मकुत्सकुत्स्यं शिव पाहि शम्भो॥

2

(मकृत्यकृत्यं) मांसास्थिमज्जामलमूत्रपात्र- गात्राभिमानं क्रिमिकृस्नजालम्। (गात्राभिमानोत्सितकृत्यजालम्) मद्भावनं मन्मथपीडिताङ्गं मायामयं मां शिव पाहि शम्भो॥

3

संसारमायाजलधिप्रवाह- सम्मग्नमुद्भ्रान्तमशान्तचित्तम्। त्वत्पादसेवाविमुखं सकामं सुदुर्ज्जनं मां शिव पाहि शम्भो॥

4

इष्टानृतं भ्रष्टमनिष्टधर्म्मं नष्टात्मबोधं नयलेशहीनम्। कष्टारिषड्वर्ग्गनिपीडिताङ्गं दुष्टोत्तमं मां शिव पाहि शम्भो॥

5

वेदागमाभ्यः सरसानभिज्ञं पादारविन्दं तव नार्च्चयन्तम्। वेदोक्तकर्म्माणि विलोपयन्तं वेदाकृते मां शिव पाहि शम्भो॥

6

अन्यायवित्तार्ज्जन सक्तचित्तं अन्यासु नारीष्वनुरागवन्तम्। अन्यान्नभोक्तारमशुद्धदेहं आचारहीनं शिव पाहि शम्भो॥

7

पुरात्ततापत्रयतप्तदेहं परां गतिं गन्तुमुपायवर्ज्जम्। परावमानैकपरात्मभावं नराधमं मां शिव पाहि शम्भो॥

8

पिताऽथ संरक्षतु पुत्रमीशो (पिता यथा रक्षति) जगत्पिता त्वं जगत्सहायः। (जगतः सहायम्) कृतापराधं तव सर्वकार्ये कृपानिधे मां शिव पाहि शम्भो॥