Vishnu Ashtakam
Ashtakam
1
श्रीगणेशाय नमः। पुरः सृष्टाविष्टः पुरुष इति तत्प्रेक्षणमुखः सहस्राक्षो भुक्त्वा फलमनुशयी शास्ति तमुत। स्वयं शुद्धं शान्तं निरवधिसुखं नित्यमचलं नमामि श्रीविष्णुं जलधितनयासेवितपदम्॥
2
अनन्तं सत्सत्यं भवभयहरं ब्रह्म परमं सदा भातं नित्यं जगदिदमितः कल्पितपरम्। मुहुर्ज्ञानं यस्मिन् रजतमिव शुक्तौ भ्रमहरं नमामि०॥
3
मतौ यत्सद्रूपं मृगयति बुधोऽतन्निरसनात् न रज्जौ सर्पोऽपि मुकुरजठरे नास्ति वदनम्। अतोऽपार्थं सर्वं न हि भवति यस्मिंश्च तमहं नमामि०॥
4
भ्रमद्धीविक्षिप्तेन्द्रियपथमनुष्यैर्हृदि विभुं नयं वै वेद स्वेन्द्रियमपि वसन्तं निजमुखम्। सदा सेव्यं भक्तैर्मुनिमनसि दीप्तं मुनिनुतं नमामि०॥
5
बुधा यत्तद्रूपं न हि तु नैर्गुण्यममलं यथा ये व्यक्तं ते सततमकलङ्के श्रुतिनुतम्। यदाहुः सर्वत्रास्खलितगुणसत्ताकमतुलं नमामि०॥
6
लयादौ यस्मिन्यद्विलयमप्युद्यत्प्रभवति तथा जीवोपेतं गुरुकरुणया बोधजनने। गतं चात्यन्तान्तं व्रजति सहसा सिन्धुनदवन्नमामि०॥
7
जडं सङ्घातं यन्निमिषलवलेशेन चपलं यथा स्वं स्वं कार्यं प्रथयति महामोहजनकम्। मनोवादग्जीवानां न निविशति यं निर्भयपदं नमामि०॥
8
गुणाख्याने यस्मिन्प्रभवति न वेदोऽपि नितरां निषिध्यद्वाक्यार्थैश्चकितचकितं योऽस्य वचनम्। स्वरूपं यद्गत्वा प्रभुरपि च तूष्णीं भवति तं नमामि श्रीविष्णुं जलधितनयासेवितपदम्॥
9
विण्वष्टकं यः पठति प्रभाते नरोऽप्यखण्डं सुखमश्नुते च। यन्नित्यबोधाय सुबुद्धिनोक्तं रधूत्तमाख्येन विचार्य सम्यक्॥
10
इति श्रीविष्ण्वष्टकं सम्पूर्णम्॥