Sharadashtaka Stotram
Ashtakam
1
शङ्खेन्दुकुन्दहिमसन्निभचारुदेहां हंसस्थितां कमलपत्रसुरोचनीयाम्। दिव्याम्बराभरणभूषितसौम्यरूपां श्रीशारदां भगवतीं सततं नमामि॥
2
संसारसागरमहोदधिमग्नसत्त्व- सन्तारिणीं सुरनरार्चितपादपद्माम्। हारार्द्धहारमणिकुण्डलमण्डिताङ्गीं श्रीशारदां भगवतीं सततं नमामि॥
3
या भारतीति कथिता जननी च लोके मोहान्धकारभरभग्नकृतां जनानाम्। सङ्कीर्तिता मुनिभिरस्तसमस्तदोषैः श्रीशारदां भगवतीं सततं नमामि॥
4
वीणानुवादनरतां स्फटिकाक्षमाला- सन्धारिणीं कनकपुस्तकधारिणीं च। रत्नैः शुभैः सुरुचिरां कृतहस्तपद्मां श्रीशारदां भगवतीं सततं नमामि॥
5
पूज्या सदैव जननी परिवन्दनीया देव्या गणा मनसि सम्परिमोदनीयाः। जीवार्थिनः फलभृतो गुणवर्णना च श्रीशारदां भगवतीं सततं नमामि॥
6
नत्वा भजेज्जगति यो जननीं प्रसिद्धां कुर्यात्सदा भगवती किलपञ्चसौख्यम्। सौन्दर्यरूपगुणवित्तसुभोगभाजं श्री शारदां भगवतीं सततं नमामि॥
7
पूजोपहारवलिभिः परिपूजनीया देव्या गणादिकमनोज्ञसुवक्त्रपद्माः। यैः पूजिता भगवती किल जाड्यहन्त्री श्रीशारदां भगवतीं सततं नमामि॥
8
यस्याः प्रसादमवगम्य सुखप्रदाया- स्त्रैलोक्यनाथौदितार्कसमप्रभः स्यात्। धर्मार्थकामफलदामथ मोक्षदां च श्रीशारदां भगवतीं सततं नमामि॥
9
इति श्रीशारदाष्टकस्तोत्रं सम्पूर्णम्॥