Chandrashekhar Ashtakam

Ashtakam

1

(शिवरहस्यान्तर्गते मार्कण्डेयकृतम्) चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्। चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्॥

2

रत्नसानुशरासनं रजताद्रिश‍ृङ्गनिकेतनं शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम्। (सिञ्जिनी, अच्युतानन) क्षिप्रदग्धपुरत्रयं त्रिदशालयैरभिवन्दितं (त्रिदिवालयैरभिवन्दितं) चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥

3

पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं भाललोचनजातपावकदग्धमन्मथविग्रहम्। भस्मदिग्धकलेवरं भवनाशनं भवमव्ययं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥

4

मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं पङ्कजासनपद्मलोचनपूजिताङ्घ्रिसरोरुहम्। देवसिन्धुतरङ्गशीकरसिक्तशीतजटाधरं (तरङ्गसी, सिक्तशुभ्र) चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥

5

कुण्डलीकृतकुण्डलीश्वरकुण्डलं वृषवाहनं (कुण्डलेश्वर) नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम्। अन्धकान्तकमाश्रितामरपादपं शमनान्तकं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥

6

यक्षराजसखं भगाक्षहरं भुजङ्गविभूषणं शैलराजसुतापरिष्कृतचारुवामकलेवरम्। क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं (क्ष्वेलनील) चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥

7

भेषजं भवरोगिणामखिलापदामपहारिणं दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम्। भुक्तिमुक्तिफलप्रदं सकलाघसङ्घनिबर्हणं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥

8

भक्तवत्सलमर्चितं निधिमक्षयं हरिदम्बरं सर्वभूतपतिं परात्परमप्रमेयमनामयम्। (परात्परमप्रमेयमनुत्तमम्) सोमवारिदभूहुताशनसोमपानिलखाकृतिं (सोमवारिन्, सोमवारिन) (भोहुताशन) चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥

9

विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं संहरन्तमथ प्रपञ्चमशेषलोकनिवासिनम्। (संहरन्तमपि) क्रीडयन्तमहर्निशं गणनाथयूथसमाकुलं (गणनाथयूथसमन्वितं) चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥

10

फलश्रुतिः - मृत्युभीतमृकण्डसूनुकृतस्तवं शिवसन्निधौ यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत्। दीर्घमायुररोगितामखिलार्थसम्पदमादरात् (पूर्णमायु, सम्पदमादरं) चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः॥

11

इति श्रीशिवरहस्यान्तर्गते शिवाख्ये मार्कण्डेयकृतं श्रीचन्द्रशेखराष्टकं सम्पूर्णम्॥

12

श्रीशिवरहस्यम्। शिवाख्यः चतुर्थांशः। अध्यायः १४ मार्कण्डेयतपः - कालनिग्रह - मार्कण्डेयवरप्रदानवर्णनम्। २२-३७+॥

13

पद्मपुराण। अध्याय २३६। ७५-८२॥