Shri Khojidevacharya Ashtakam

Ashtakam

1

आनन्दभाष्यसिद्धान्तप्रबोद्धारं तपोनिधिम्। वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥

2

रामानन्दमताभिज्ञं रामानन्दानुयायिनम्। वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥

3

मायावादं पराजित्य विशिष्टाद्वैतपोषकम्। वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥

4

ऊर्ध्वपुण्ड्रादिसंस्कारैर्वैष्णवत्वविधायकम्। वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥

5

रहस्यानां प्रवक्तारं रहस्यानां प्रदायिनम्। वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥

6

मुक्तिधामप्रदातारं भक्त्या श्रीरामसीतयोः। वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥

7

रामसेवारतं नित्यं रामकीर्त्तनतत्परम्। वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥

8

राघवोपासकं सिद्धं राघवदासनामकम्। वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥