Shri Shiva Ashtakam by Markandeya
Ashtakam
1
सदा गोदावर्यास्तटनिकटवासं पशुपतिं वदान्यं सर्वेशं वरदमखिलार्थैक घटनम्। शिवं गौरीनाथं शशिधरमनन्तार्चितपदं भजे मार्कण्डेयं भसितनिटलं भव्यनटनम्॥
2
सदा कैलासाद्रि स्वपदमनघं सर्वजगतां प्रभुं श्रीविश्वेशं प्रकटित परन्धामसरथम्। नटेशं गौरीशं ललितरविचन्द्रानलसदृशं भजे मार्कण्डेयं भसितनिटलं भव्यनटनम्॥
3
महादेवं सर्वं मधुरिपुसखं मङ्गलकरं परं शम्भुं साम्बं पुरमथनमीशं भवहरम्। स्मरारिं सर्वज्ञं स्मरहरमनादिं मृगधरं भजे मार्कण्डेयं भसितनिटलं भव्यनटनम्॥
4
प्रदोषेषु स्वान्तं प्रबलतरतौर्यत्रिककृतं त्रयत्रिंशत्कोटि त्रिशदप्रवरैः सं परिवृतम्। रमावाणीन्द्र श्रीपति विधिकृतोल्लास्यकरणं भजे मार्कण्डेयं भसितनिटलं भव्यनटनम्॥
5
भवानीहृत्पद्मारुणमहिनि नीलोत्पलगलं सहस्रारे पद्मानिशमविवसन्तं सुरगुरुम्। स्तुतिभ्यो भक्तानां निखिलसुखदं सुस्थिरपदं भजे मार्कण्डेयं भसितनिटलं भव्यनटनम्॥
6
शिवस्त्वं विष्णुत्वं सकलभुवनस्त्वं रविशशि- नभस्त्वं कायस्त्वं सकलजगात्मा त्वमसि भो। यतिर्देयं सान्ते सुखतमखिलं जैमिनिवरेः भजे मार्कण्डेयं भसितनिटलं भव्यनटनम्॥
7
सदोच्चैराह्वानं हरहरहरेति प्रवचसा सदा भक्त्यानन्दो शिवशिवशिवेति स्वमनसा। स्तुतिं वारं वारम्भवभवभवेति प्रतिभया। भजे मार्कण्डेयं भसितनिटलं भव्यनटनम्॥
8
यमाहूतं भीतं मुनिवरनुतं पाशनिहतिं भवन्तं सद्भक्त्या हृदिशिशुमवन्तं करुणया। शरण्यं भक्तानां परमगतिमीशं परशिवं भजे मार्कण्डेयं भसितनिटलं भव्यनटनम्॥
9
श्रीकोलाचलसद्वंशवारिदेस्तु सुधाकरः। यज्ञेशो भूसुरश्चक्रे मार्कण्डेयशिवाष्टकम्॥