Kashyashtakam

Ashtakam

1

श्रीगणेशाय नमः। पापौघविध्वंसकरीं प्रसिद्धां श्रीजाह्नवीभूषितदिव्यरूपाम्। निर्वाणदात्रीं निखिलैकपूज्यां शिवप्रियां चैव नमामि काशीम्॥

2

देवासुरैर्वन्दितपादपद्मां गायन्ति मुनयः सुयशश्च दिव्याम्। प्रसिद्धवेदेषु प्रभावमस्याः शिवप्रियां चैव नमामि काशीम्॥

3

मुमुर्षूणां चैव शिवप्रदायिनीं वैकुण्ठश्रेणिं गुणमन्दिरां च। शिवालयां शोकविनाशिनीं च शिवप्रियां चैव नमामि काशीम्॥

4

विनाशशून्यां शिवरूपिणीं च मोहान्धकारस्य विनाशिनीं च। ब्रह्मात्मिकां कामप्रदायिनीं च शिवप्रियां वै प्रणमामि काशीम्॥

5

विशुद्धविज्ञानघनां चिदात्मिकां मोहाटवीं चैव दवाग्निभूताम्। शुद्धां सुशान्तां शिवभक्तिदायिनीं शिवप्रियां वै प्रणमामि काशीम्॥

6

भूतौघसन्तापविनाशिनीं च लोकेश्वरैर्वन्दितदिव्यरूपाम्। महावतां गर्भनिवासकृन्तनीं शिवप्रियां वै प्रणमामि काशीम्॥

7

विज्ञानदात्रीं प्रणवस्वरूपां चिन्तामणिं भक्तिप्रदां च नित्याम्। गोलोकदात्रीं भवभक्तिदात्रीं शिवप्रियां वै प्रणमामि काशीम्॥

8

बुद्धेः परां शङ्करप्राणवल्लभां मोहार्णवं कुम्भसमुद्भवां च। पापेभव्याघ्रीं हरलोकदात्रीं शिवप्रियां वै प्रणमामि काशीम्॥

9

प्रातः प्रातः समुत्थाय यः पठेत्प्रयतः पुमान्। अन्यदेशेऽपि भक्त्या स काशीवासफलं लभेत्॥

10

इति श्रीगोपालव्यासविरचितं काश्यष्टकं सम्पूर्णम्॥