Shri Radhavarashtakam
Ashtakam
1
चतुर्मुखादिसंस्तुतं समस्तसात्वतानुतम्। हलायुधादिसंयुतं नमामि राधिकाधिपम्॥
2
बकादिदैत्यकालकं सगोपगोपिपालकम्। मनोहरासितालकं नमामि राधिकाधिपम्॥
3
सुरेन्द्रगर्वभञ्जनं विरञ्चिमोहभञ्जनम्। व्रजाङ्गनानुरञ्जनं नमामि राधिकाधिपम्॥
4
मयूरपिच्छमण्डनं गजेन्द्रदन्तखण्डनम्। नृशंसकंसदण्डनं नमामि राधिकाधिपम्॥
5
प्रदत्तविप्रदारकं सुदामधामकारकम्। सुरद्रुमापहारकं नमामि राधिकाधिपम्॥
6
धनञ्जयाजयावहं महाचमूक्षया वहम्। पितमहव्यथापहं नमामि राधिकाधिपम्॥
7
मुनीन्द्रशापकारणं यदुप्रजापहारणम्। धराभरावतारणं नमामि राधिकाधिपम्॥
8
सुवृक्षमूलशायिनं मृगारिमोक्षदायिनम्। स्वकीयधाममायिनं नमामि राधिकाधिपम्॥
9
इदं समाहितो हितं वराष्टकं सदा मुदा। जपञ्जनो जनुर्जरादितो द्रुतं प्रमुच्यते॥
10
इति श्रीनिम्बार्काचार्यविरचितं श्रीराधावराष्टकं सम्पूर्णम्। राधिकाधिपाष्टकम्॥