Shri Subrahmanya Mangala Ashtakam

Ashtakam

1

श्रीमद्गौरिसुतायास्तु श्रितमन्दारशाखिने। शिखिवर्य तुरङ्गाय सुब्रह्मण्याय मङ्गलम्॥

2

भक्ताभीष्टप्रदायास्तु भवरोगविनाशिने भवानीप्रियपुत्राय रणधीराय मङ्गलम्॥

3

शूरपद्मादि दनुजतमिस्र कुलभानवे तारकासुरसंहार नर्मशीलाय मङ्गलम्॥

4

वल्लीवदनराजीव मधुपाय महौजसे। उल्लसन्मणिकोटीर भासुरायास्तु मङ्गलम्॥

5

कोटिकन्दर्पलावण्यनिधये कामदायिने खेटकादि धनुश्यक्तिधराय शुभमङ्गलम्॥

6

कनकाम्बरसंराजत्कमनीयाङ्गधारिणे सनकादि महायोगि संस्तुतायास्तु मङ्गलम्॥

7

मुक्ताहारलसत्कण्ठराजये मुक्तिदायिने। व्यालरूपाय विगतविकारायास्तु मङ्गलम्॥

8

शरकाननजाताय शतमन्युस्तुताय च। शरदिन्दुमुखायास्तु सुब्रह्मण्याय मङ्गलम्॥

9

मङ्गलशासनमिदं सुब्रह्मण्यस्य मानवः यः पठेत्सततं भक्त्यालभते धनसम्पदम्॥