Shri Bhavasodaryashtakam
Ashtakam
1
भजतां कल्पलतिका भवभीतिविभञ्जनी। भ्रमराभकचा भूयाद्भव्याय भवसोदरी॥
2
करनिर्जितपाथोजा शरदभ्रनिभाम्बरा। वरदानरता भूयाद्भव्याय भवसोदरी॥
3
काम्या पयोजजनुषा नम्या सुरवरैर्मुहुः। रभ्याब्जवसतिर्भूयाद्भव्याय भवसोदरी॥
4
कृष्णादिसुरसंसेव्या कृतान्तभयनाशिनी। कृपार्द्रहृदया भूयाद्भव्याय भवसोदरी॥
5
मेनकादिसमाराध्या शौनकादिमुनिस्तुता। कनकाभतनुर्भूयाद्भव्याय भवसोदरी॥
6
वरदा पदनम्रेभ्यः पारदा भववारिधेः। नीरदाभकचा भूयाद्भव्याय भवसोदरी॥
7
विनताघहारा शीघ्रं विनतातनयार्चिता। पीनतायुक्कुचा भूयाद्भव्याय भवसोदरी॥
8
वीणालसतपाणिपद्मा काणादमुखशास्त्रदा। एणाङ्कशिशुभृद्भूयाद्भव्याय भवसोदरी॥
9
अष्टकं भवसोदर्याः कष्टनाशकरं द्रुतम्। इष्टदं सम्पठञ्छीघ्रमष्टसिद्धीरवाप्नुयात्॥